________________
षष्ठाध्यायस्य प्रथमः पादः ॥
३५
[वातण्ड्यः ] वतण्ड । वतण्डस्यापत्यं वृद्धमाङ्गिरसः = वातण्ड्यः । अनेनैव यप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
आङ्गिरसादन्यत्र - (वातण्ड्यः , वातण्डः) वतण्डस्यापत्यं वृद्धम् । 'गर्गादेर्यब्' (६।११४२) यप्र० → य । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
गर्गादिपाठादेव यत्रि सिद्धे वचनमाङ्गिरसे शिवाद्यण् बाधनार्थम् । ननु यः शिवादौ अण् सोऽपत्यमात्रे विहितो गर्गादौ तु यञ् वृद्धापत्ये तस्माद् विशेषविधानादेव आङ्गिरसेऽन्यत्रापि च यञ् सिद्धौ किमर्थं सूत्रम् ? इत्याशङ्का । शिवादिपाठोऽप्यस्य वृद्ध एवाविधानार्थः । अन्यत्र अनन्तरापत्ये हि ऋषित्वादेव अण् सिद्धः ॥छ।।
स्त्रियां लुप् ॥ ६।१।४६ ॥ [स्त्रियाम् ] स्त्री सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९)ङि० → दाम्० → आम्० । 'स्त्रियाः' (२।१।५४) इय् ।
[लुप्] लुप् प्रथमा सि ।।
[वतण्डी] वतण्डस्यापत्यं वृद्धं स्त्री आङ्गिरसी । 'वतण्डात्' (६।१।४५) यप्र० । अनेन यञ्लुप् । 'जातेरयान्तनित्यस्त्री-शूद्रात्' (२।४।५४) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[वातण्डी] वतण्डस्यापत्यं वृद्धम् । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ। 'अवर्णेवर्णस्य' (७४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[वातण्ड्यायनी] वतण्डस्यापत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'लोहितादिशकलान्तात्' (२।४/६८) ङी० → ई० - डायन्० → आयन् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥छ।।
कुञ्जादे यन्यः ॥ ६।१।४७ ।।
[कुञ्जादेः] कुञ्ज आदिर्यस्य सः = कुञ्जादिः, तस्मात् । [आयन्यः] जायन्य प्रथमा सि ।
[कौञ्जायन्यः] टुक्षु (१०८४) - रु (१०८५) - 'कुंक् शब्दे' (१०८६) कु । कौति = कुञ्जः । 'कुवः कुब् - कुनौ च' (उणा० १२९) कुञ्जनिपातः । कुञ्जस्यापत्यं वृद्धम् । अनेन जायन्यप्र० । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[कौञ्जायन्यौ] कुञ्जस्यापत्ये वृद्ध = कौञ्जायन्यौ । शेषं पूर्ववत् ।
[ब्राध्नायन्यः] 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्धते गुणैः । 'दिन-नग्न - फेन - चिह्न - ब्रज - धेन - स्तेन - च्यौक्नादयः' (उणा० २६८) नप्र० - ब्रजनिपातः । ब्रध्नस्यापत्यमनन्तरम् । 'ऋषि-वृष्ण्यन्धक - कुरुभ्यः' (६।१४६१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । ब्राध्नस्यापत्यं वृद्धम् । अनेन जायन्यप्र० ।
[ब्राध्नायन्यौ] ब्राध्नस्यापत्यं(त्ये) वृद्धे । अनेन जायन्यप्र० । शेषं पूर्ववत् ।
उणादौ - 'कुङ् शब्दे' ।