________________
षष्ठाध्यायस्य प्रथमः पादः ॥
३३
[कुण्डिनी] 'कुडुङ् दाहे' (६९०) कुड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) कुण्ड् । अवश्यं कुण्डते । 'णिन् चाऽऽवश्यकाऽधमर्ये' (५।४।३६) णिन्प्र० → इन् । 'स्त्रियां नृतोऽस्वस्रादे8:' (२।४।१) ङी ।
[यज्ञवल्क] यज्ञो वल्कोऽस्य सः ।
[मुद्गर, मुद्गल ] मुदि गिरति = मुद्गर । 'मुदि-गूरिभ्यां टिद् गजौ चान्तौ' (उणा० ४०४) टिद् अरप्र० - लत्वे मुद्गल ।
[मुसर ] मुस 'रांक दाने' (१०६९) रा । मुसं रातीति । क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) आलुक् ।
[मुसल] मुस 'लांक् आदाने' (१०६८) ला । मुसं लातीति । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्य०' (२।१।११४) आलुक् । अथवा 'मुसच् खण्डने' (१२२८) मुस् । 'तृपि-वपि-कुपि-कुशि-कुटि-वृषि-मुसिभ्यः कित्' (उणा० ४६८) किद् अलप्र० ।
[मन्द्रित ] मन्द्रो गंभीरः शब्दः, सोऽस्यास्ति । इतप्र० । मन्द्रं करोति वा । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[पिङ्गल ] पिङ्गं लातीति पिङ्गलः । 'क्वचित्' (५।१।१७१) डप्र० । [गोलुन्द] गां लुनाति । 'कुमुद-बुबुदादयः' (उणा० २४४) । उदप्र० निपातः ।
[उलूक] उलिः सौत्रो धातुः - उल् । ओलति । 'शम्बूक-शाम्बूक-वृधूक-मधूकोलूकोरुबूक-वरुकादयः' (उणा० ६१) इति 'उलूक' निपातः ।
[भिष] भिषि सौत्रो धातुः - भिष् । भिषते । 'नाम्युपान्त्य - प्री - कृ-गृ-ज्ञः कः' (५।१।५४) कप्र० - भिषः । [भिषज, भिष्णज] भिषि सौत्रो धातुः । 'भिषेभिष-भिष्णौ च वा' (उणा० १३१) किद् अजप्र० - निपात्यते ।
[वृहलू] वृहं लुनाति - वृहलू । [पप्फलू] #पुष्पाणि लुनाति । 'क्विप्' (५।१।१७१) क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः । इति गर्गादिः ॥ब।।
मधु-बभ्रोर्बाह्मण-कौशिके ।। ६।१।४३ ।। [मधुबभ्रोः ] + मधुश्च बभ्रुश्च = तत्, तस्मात् । [ब्राह्मणकौशिके] ब्राह्मणश्च कौशिकश्च = ब्राह्मणकौशिकम, तस्मिन् ।
[माधव्यो ब्राह्मणः] मधु । मधोरपत्यं वृद्धं ब्राह्मणः = माधव्यः । अनेन यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[माधवोऽन्यः] मधोरपत्यं = माधवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव' (७४/७०) अव् ।
हैमप्रकाशे - फलानि लुनाति । पृषोदरादित्वात् पप्फलूः । + श० म० न्या० - मधुश्च बभ्रुश्चैतयोः समाहारो मधुबभ्रू, तस्मात् = मधुबभ्रोरिति । यद्यपि समाहारे क्लीबत्वमुचितमिति मधुबभ्रुणोरिति पाठो युक्तः, तथापि सौत्रत्वाल्लाघवार्थं च प्रकृतनिर्देश इति विज्ञेयम् ।