________________
३२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[व्याघ्रपात्] व्याघ्रस्येव पादौ यस्यासौ व्याघ्रपात् । 'सु-संख्यात्' (७।३।१५०) पाद० → पात् ।
[वि( वे )दभृत् ] 'टुडुभंगा पोषणे च' (११४०) भृ ।* वेदं बिभर्ति = वेदभृत् । क्विप्र० । 'हस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[पितृबध्] पितृ 'बन्धंश् बन्धने' (१५५२) बन्ध् । पितरं बध्नाति । क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लोपः ।
[प्राचीनयोग ] प्राचीनो योगो यस्य सः = प्राचीनयोगः ।
[पुलस्ति ] + 'पुलण् समुच्छ्राये' (१६८९) पुल् । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । पोलयतीति पुलस्तिः । 'अगि-विलि-पुलि क्षिपेरस्तिक' (उणा० ६६०) किद् अस्तिप्र० । 'णेरनिटि' (४।३।८३) णिच्लुक् ।
[रेभ ] 'रेभृङ् शब्दे' (७७५) रेभ् । रेभते । 'अच्' (५।१।४९) अच्प्र० → अ ।
[अग्निवेश] अग्नि 'विशंत् प्रवेशने' (१४१५) विश् । अग्निमपि विशति = अग्निवेशः । 'अच्' (५।१४९) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[शङ्ख] 'शमूच् उपशमे' (१२३०) शम् । शाम्यत्युपसर्गाणीति शङ्खः । 'शमि-मनिभ्यां खः' (उणा० ८४) खप्र० । [विश्वावसु] विश्व-वसु । विश्वस्मिन् वसूनि यस्य सः = विश्वावसुः । 'वसु-राटोः' (३।२।८१) दीर्घत्वम् ।
[कुरुकत] 'कै शब्दे' (३६) कै । 'आत् सन्ध्यक्षरस्य' (४।२।१) का । 'पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित्' (उणा० २०८) किद् अतप्र० । 'इडेत्-पुसि-चाऽऽतो लुक्' (४।३।९४) आलुक् । कुरूणां कतः = कुरुकतः ।
[लोहित ] 'रुहं जन्मनि' (९८८) रुह् । 'हृ-श्या-रुहि-शोणि-पलिभ्य इतः' (उणा० २१०) इतप्र० - रोहितः - लत्वे लोहितः ।
[बभ्रु, बभ्लु ] 'टुडु,ग्क् पोषणे च' (११४०) भृ । 'भंग भरणे' (८८६) भृ वा । 'हनि-या-कृ-भृ-पृ-तृ-त्रो द्वे च' (उणा० ७३३) किद् उप्र० - द्वित्वं च बभ्रुः - लत्वे बभ्लुः ।
[मण्डु ] 'मडु भूषायाम्' (२३१) मड् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) मण्ड् । मण्डते(ति) । 'भृ-मृतृ-त्सरि-तनि-धन्यनि-मनि-मस्जि-शी-वटि-कटि-पटि-गडि-चञ्च्यसि-वसि-त्रपि-शृ-स्व-स्निहि-क्लिदि-कन्दीन्दिविन्धन्धि-बन्ध्यणि-लोष्टि-कुन्थिभ्य उ:' (उणा० ७१६) उप्र० ।
[मखु] उख (६३) - नख (६४) - णख (६५) - वख (६६) - मख (६७) - रख (६८) - लख (६९) 'मखु गतौ' (७०) मख् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) मङ्ख् । मङ्खतीति मङ्खः । 'भृ-मृ-तृ-त्सरि-तनिधन्यनि-मनि-मस्जि-शी-वटि-कटि-पटि-गडि-चञ्च्यसि-वसि-त्रपि-श-स्व-स्निहि-क्लिदी-कन्दीन्दि-विन्धन्धिबन्ध्यणि-लोष्टि-कुन्थिभ्य उ:' (उणा० ७१६) उप्र० ।
[गृहलु] 'गुहौग् संवरणे' (९३५) गुह् । गोहतीति । 'गूहलु-गुग्गुलु-कमण्डलवः' (उणा० ८२४) 'गूहलु' निपातः । [तलुक्ष ] तरु 'क्षि क्षये' (१०) क्षि । तरून् क्षयतीति । 'क्वचित्' (५।१।१७१) डप्र० । लत्वे कृते तलुक्ष ।
म उणादौ - 'पुल महत्त्वे' । ++ उणादौ - ‘मनिच् ज्ञाने' (१२६३) मन् । 'तमि-मनि-कणिभ्यो दु:' (७६५) डुप्र० । मण्डुः - ऋषिः । ★ हैमप्रकाशे - विदं बिभर्ति = विदभृत् ।