________________
षष्ठाध्यायस्य प्रथमः पादः ॥
३१
[गार्ग्यः] 'गृत् निगरणे' (१३३५) गृ । गिरति निरवद्यमिति गर्गः । 'गम्यमि - रम्यजि-गद्यदि-छाग-डि-खडिगृ-भृ-वृ-स्वृभ्यो गः' (उणा० ९२) गप्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । गर्गस्यापत्यं वृद्धं = गार्ग्यः । अनेन यप्र० → य । 'वृद्धिः स्वरेष्वादेफिति तद्विते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[ वात्स्यः] 'वद व्यक्तायां वाचि' (९९८) वद् । वदति मातरं दृष्ट्वा निरवद्यमिति वत्सः । 'मा-वा-वद्यमिकमि-हनि-मानि-कष्यशि-पचि-मुचि-यजि-वृ-तृभ्यः सः' (उणा० ५६४) सप्र० । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त । वत्सस्यापत्यं वृद्धं = वात्स्यः । अनेन यप्र० → य । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गार्गिः] गर्गस्यापत्यमनन्तरं = गार्गिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गार्गिः] गर्गो नाम कश्चित्, तस्यापत्यं वृद्धं = गार्गिः । 'अत इब्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[मानव्यायनी] मनु । मनोरपत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । 'लोहितादिशकलान्तात्' (२।४।६८) ङी-डायन्० → आयन्० च । 'डित्यन्त्यस्वरादेः (२।१।११८) अन्त्यस्वरादिलोपः ।
[मानवी प्रजा] मनु । मनोरपत्यं = मानवी प्रजा । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । 'अणजेयेकण्' (२।४।२०) ङी । उभयत्र सि ।
[रामो जामदग्न्यः] राम । प्रथमा सि । जमदग्नि । जमदग्नेरपत्यमनन्तरमपि वृद्धम् । अनेन यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[व्यासः पाराशर्यः] व्यास प्रथमा सि । पर कृ (१५२९) - मृ (१५३०) - 'शृश् हिंसायाम्' (१५३१) शू, आपूर्व० । परान् आशृणातीति पराशरः । 'लिहादिभ्यः' (५।१।५०) अच्प्र० → अ । 'नामिनो०' (४।३।१) गु० अर् । पराशरस्यापत्यमनन्तरमपि वृद्धं = पाराशर्यः । अनेन यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
पुत्रेऽपि पौत्रादिकार्यकरणात् तथोच्यते -
[जामदग्नः] जमदग्नेरपत्यमनन्तरं = जामदग्नः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० = अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[पाराशरिः] पराशरस्यापत्यं = पाराशरिः । 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[कथं पाराशरः ?] पा(प)राशरस्यायं = पाराशरः । 'तस्येदम्' (६।३।१६०) । अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[वाज] 'वज मार्गणसंस्कारगत्योः' (१५९०) वज् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वाजयतीति वाजः । अच्प्र० । 'णेरिनिटि' (४।३।८३) णिच्लुक् ।
[ अज] न जायते = अजः । 'क्वचित्' (५।१।१७१) डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । [संकृति ] संकृतीत्यत्र गणपाठात् सडभावः ।