________________
३०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
कश्यपस्यापत्यानि वृद्धानि = कश्यपाः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यत्र जस् तत्र 'यज्ञोऽश्यापर्णान्त'० (६।१।१२६) अञ्लुप् । सि-औ- जस् ।
[भारद्वाजः, भारद्वाजौ, भरद्वाजाः] 'शृंग भरणे' (८८६) भृ । भरतीति । ‘शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । धृज (१३०) - धृजु (१३१) - ध्वज (१३२) - ध्वजु (१३३) - ध्रज (१३४) - ध्रजु (१३५) - 'वज गतौ' (१३६) वज् । वजनं = वाजः । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । भरन् वाजोऽस्य सः = भरद्वाजः । यद्वा भरन्तं वजति - वाजयति वा = भरद्वाजः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । 'णेरनिटि' (४।३।८३) णिच्लुक् । भरद्वाजस्यापत्यं वृद्धं = भारद्वाजः । भरद्वाजस्यापत्ये वृद्धे = भारद्वाजौ । भरद्वाजस्यापत्यानि वृद्धानि = भरद्वाजाः । अनेन अप्र० → अ । यत्र जस् तत्र 'यत्रोऽश्यापर्णान्त०' (६।१।१२६) अञ्लुप् । अन्यत्र 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-औ-जस् ।
[अथेन्द्रहूः सप्तमः काश्यपानाम्, भारद्वाजानां कतमोऽसि]
[काश्यपानाम्] कश्यप । कश्यपस्य इमे = काश्यपाः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, तेषाम् ।
[भारद्वाजानाम्] भरद्वाजस्य इमे = भारद्वाजाः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णवर्णस्य' (७।४।६८) अलुक्, तेषाम् ।
कश्यपस्यापत्यानि इत्यत्र कश्यपेन सर्वेषां सम्बन्धोऽस्ति, पारम्पर्येण सम्बन्धात् । इदमर्थे तु एकस्यैव कश्यपेन सम्बन्धभूतोऽर्थेभेदो भवेदित्याह - सर्वेषामपि हि पितरोऽभेदोपचारेण कश्यपाः ।
[बभ्रुः ] बभ्रु । बभ्रोरपत्यं वृद्धम् । न केवलं 'गर्गादेर्यज्' (६।१।४२) । [मण्डुः ] मण्डोरपत्यं वृद्धम् । न केवलं 'गर्गादेर्यज्' (६।१।४२) ।
[लमकः] लमकस्यापत्यं वृद्धं = लमकः । न केवलं 'नडादिभ्य आयनण्' (६।१।५३) ।
[वैदिः] विद । विदस्यापत्यमननन्तरं = वैदिः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) इत्यण्बाधकः 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[विश्वानर] 'नरे' (३।२।८०) दीर्घत्वम् ।
[ऋष्टिषेण] 'एत्यकः' (२।३।२६) षत्वम् ।
[माठर्यः, माठौँ ] मठर । मठरस्यापत्यं = माठर्यः । मठरस्यापत्ये = माठौँ । मतान्तरे यकारादि - अप्र० - वृद्धिश्च । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-औ ।
[ मठराः] बहुवचनेषु 'योऽश्यापर्णान्त-गोपवनादेः' (६।१।१२६) अञ्लुप् । यस्यापि निवृत्तौ मठरा निष्पद्यते ॥छ।
गर्गादेर्यञ् ॥ ६।१।४२ ॥
[गर्गादेः] गर्ग आदिर्यस्य सः = गर्गादिस्तस्मात् । [यञ्] यञ् प्रथमा सि ।