________________
षष्ठाध्यायस्य प्रथमः पादः ॥
२९
[काळयणिः] कर्तृ । कर्तुरपत्यं = कात्रः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ। 'इवर्णादेरस्वे०' (१।२।२१) रत्वम् । कात्रस्यापत्यम् । 'द्विस्वरादणः' (६।१।१०९) आयनिप्र० → आयनि । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अस्य च ब्राह्मणत्वात् 'अब्राह्मणात्' (६।१।१४१) इति न लुप् । उच्यते - पुनर्वाद्यपत्यस्यागोत्रत्वाद् गोत्राधिकारे विहिता लुप् संघाद्यण् च न भविष्यति ।
पौत्रशब्दाच्चावृद्धप्रत्ययान्तत्वादयणि च इञ् आयनिञ् च न भविष्यतीति । विशेषाभाव एव ॥छ।।
परस्त्रियाः परशुश्चासावर्ये ।। ६।१।४० ॥ [ परस्त्रियाः] परा-स्त्री । परा-पुरुषाद्भिन्नवर्णा स्त्री = परस्त्री । 'परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ्' (३।२।४९) पुंवत्, तस्याः = परस्त्रियाः । 'स्त्रीदूतः' (१।४।२९) दास्० → आस्० । इय् ।
[ परशुः] परशु प्रथमा सि । [च] च प्रथमा सि ।
[असावये ] समानो वर्णो यस्याः सा = सवर्णा । 'समानस्य धर्मादिषु' (३।२।१४९) समान० → स० । 'आत्' (२।४।१८) आप्प्र० → आ । सवर्णाया भावः = सावर्ण्यम् । 'पति-राजान्त-गुणाङ्ग-राजादिभ्यः कर्मणि च' (७।१।६०) ट्यणप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । न सावर्ण्यम् = असावर्ण्यम्, तस्मिन् = असावयें ।
[पारशवः] पर-स्त्री । परात् पुरुषाद्भिन्नवर्णा स्त्री = परस्त्री, तस्या अनन्तरापत्यं = पारशवः । अनेन अप्र० → अ - परस्त्री → परशुरादेशश्च । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । यो ब्राह्मणेन शूद्रयोषिति जातः सः पारशवः । वारडः प्राकृतभाषयोच्यते ।
[पारस्त्रैणेयः] परस्य स्त्री = परस्त्री, तस्या अनन्तरापत्यं = पारस्त्रैणेयः । 'कल्याण्यादेरिन् चाऽन्तस्य' (६।१७७) एयणप्र० → एय - ईकारस्य इनादेशः । 'अनुशतिकादीनाम्' (७।४।२७) उभयपदवृद्धिः । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । जारजातः कथ्यते ॥छ।।
विदादेर्वृद्धे ॥ ६।१।४१ ॥ [विदादेः] विद आदिर्यस्य सः = विदादिः, तस्मात् । [वृद्धे] वृद्ध सप्तमी ङि।
[वैदः, वैदौ, विदाः] विद । विदस्यापत्यं वृद्धं = वैदः । विदस्यापत्ये वृद्ध = वैदौ । विदस्यापत्यानि वृद्धानि = विदाः । अनेन त्रिषु अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । बहुवचनं यत्र दीयते तत्र 'यज्ञोऽश्यापर्णान्त - गोपवनादेः' (६।१।१२६) अञ्लुप् । सि-औ-जस् ।
[और्वः, औौ, उर्वाः] उर्व । उर्वस्यापत्यं वृद्धम् = और्वः । उर्वस्यापत्ये वृद्धे = औौं । उर्वस्यापत्यानि वृद्धानि = उर्वाः । अनेन अप्र० → अ । बहुवचनं यत्र दीयते तत्र 'यञोऽश्यापर्णान्त०' (६।१।१२६) अञ्लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-औ-जस् ।
[काश्यपः, काश्यपौ, कश्यपाः] कशामर्हति । 'दण्डादेयः' (६।४।१७८) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । 'पां पाने' (२) पा । कश्यं पिबतीति कश्यपः । 'आतो डो-ऽह्वा-वा-मः' (५।१।७६) डप्र० → अ । 'डित्यन्त्यस्वरादेः (२।१।११४) आलुक् । कश्यपस्यापत्यं वृद्धं = काश्यपः । कश्यपस्यापत्ये वृद्धे = काश्यपौ ।