________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
पुनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽञ् ॥ ६।१।३९ ॥ [पुनर्भूपुत्रदुहितृननान्दुः] पुनर्भूश्च पुत्रश्च दुहितृश्च(दुहिता च) ननान्दृश्च(ननान्दा च) = पुनर्भूपुत्रदुहितृननान्दृ, तस्मात् ।
[अनन्तरे] न विद्यते अन्तरं - विधानं(व्यवधान) यत्र तत् = अनन्तरम्, तस्मिन् । [अञ्] अञ् प्रथमा सि ।
[पौनर्भवः, पौनर्भवौ, पौनर्भवाः] पुनर्भवति । क्विप्प्र० । पुनर्भू । पुनर्वा अनन्तरमपत्यं = पौनर्भवः । पुनर्वा अनन्तरेऽपत्ये - पौनर्भवौ । पुनर्वा अनन्तराण्यपत्यानि = पौनर्भवाः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि - औ - जस् ।
[पौत्रः] पुत्र । पुत्रस्यानन्तरमपत्यं = पौत्रः । वृद्धापत्ये पौत्रिरेव । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[दौहित्रः] दुहितृ । दुहितुरनन्तरमपत्यं = दौहित्रः । अनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७।४।१) वृ० औ । 'इवर्णादेरस्वे०' (१।२।२१) र० ।
[नानान्द्रः] ननान्दृ । ननान्दुरपत्यमनन्तरं = नानान्द्रः । अनेन अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'इवर्णादेरस्वे०' (१।२।२१) र० ।।
[वैदः] विद । विदस्यापत्यं वृद्धं = वैदः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि ।
[वैदौ] विद । विदस्यापत्ये वृद्धे = वैदौ । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ। 'वृद्धि: स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा औ ।
[विदाः] विदस्यापत्यानि = विदाः । 'विदादेव॒द्धे' (६।१२४१) अप्र० → अ । 'यञोऽश्यापर्णान्त - गोपवनादेः' (६।१।१२६) अब्लुप् । प्रथमा जस् ।
[वैदम् ] विदस्यापत्यानि । 'विदादेवृद्धे' (६।१।४१) अप्र० । 'यज्ञोऽश्यापर्णान्त०' (६।१।१२६) अब्लुप् । विदानां सङ्घादिः । 'सङ्घ-घोषा-ऽङ्क-लक्षणेऽञ्-यजिञः' (६।३।१७२) अण्प्र० । 'न प्राजितीये स्वरे' (६।१।१३५) इति अविषये लुप्तप्रत्ययस्याजो लोपाभावः । कोऽर्थः ? पुनरपि निवर्त्तते । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि - अम् ।
[औपगवाः ] उपगोरपत्यानि = औपगवाः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७/४/७०) अव् । प्रथमा जस् ।
[औपगवकम् ] औपगवानां सङ्गः । 'चरणादकञ्' (६।३।१६८) इत्यधिकारः 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) इति अकञ्प्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पौत्रः] पुत्र । पुत्रस्यानन्तरमपत्यम् । 'पुनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽञ्' (६।१।३९) अप्र० । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः पु० → पौ० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । पौत्रस्यापत्यम् । 'अत इब्' (६।१।३१) इप्र० । 'जिदार्षादणिोः ' (६।१।१४०) इञो लुप् ।