________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[वाड्वलिः] वाच 'वद व्यक्तायां वाचि' (९९८) वद् । वाचं वदति = वाग्वादः । 'कर्मणोऽण' (५।१।७२) अण्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । वाग्वादस्यापत्यं = वाड्वलिः । अनेन इप्र० → इ - वाचोऽन्तस्य डत्वं - वल भावश्चोत्तरपदस्य ॥ छ ।।
व्यास-वरुट-सुधातृ-निषाद-बिम्ब-चण्डालादन्तस्य चाक् ॥ ६।१।३८ ॥ [व्यासवरुटसुधातृनिषादबिम्बचण्डालात्] व्यासश्च वरुटश्च सुधाता च निषादश्च बिम्बश्च चण्डालश्च = व्यासवरुटसुधातृनिषादबिम्बचण्डालम्, तस्मात् ।
[अन्तस्य ] अन्त षष्ठी ङस् । [च] च प्रथमा सि
[अक्] अक् प्रथमा सि । यद्यन्तग्रहणं न स्यात् तदा 'अनेकवर्णः सर्वस्य' (७।४।१०७) स्यात् ।
[वैयासकिः] वि 'आसिक् उपवेशने' (१११९) आस् । ॐ विशिष्टमास्ते = व्यासः । 'अच्' (५।१२४९) अच्प्र० → अ । विविधमासयति वा = व्यासः । 'अच्' (५।१।४९) अच्प्र० → अ । वि 'असूच क्षेपणे' (१२२१) अस् । विशेषेण अस्यते = व्यासः । कर्मणि घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । व्यासस्यापत्यं = वैयासकिः । अनेन इप्र० → इ - अन्तस्याकारस्य अक् च । 'लोकात्' (१।१।३) व् पाठउ विश्लेषियइ । 'यवः पदान्तात् प्रागैदौत् (७४।५) ऐ० - वै० ।
[वारुटकिः] वरुट । वरुटस्यापत्यम् । अनेन इप्र० → इ - अन्तस्याकारस्य अक् च । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० आ ।
[सौधातकिः] सुधातृ । सुधातुरपत्यम् । अनेन इप्र० → इ - अन्त ऋकारस्य अक् च । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ ।
[नैषादकिः] नि 'षद्लूं विशरण-गत्यवसादनेषु' (९६६) षद् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सद् । निषीदन्तीत्यत्र । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'सदोऽप्रते: परोक्षायां त्वादेः' (२।३।४४) इति षत्वम् । निषादस्यापत्यम् । अनेन इप्र० → इ - अन्तस्याकारस्य अक् च । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० ऐ ।
[नैषादः] निषादस्यापत्यं वृद्धं = नैषादः । 'विदादेर्वृद्धे' (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[बैम्बकिः] बिम्बस्यापत्यं = बैम्बकिः । अनेन इप्र० → इ - अन्तस्याकारस्य अक् च । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृ० ऐ।
[चाण्डालकिः ] चण्डालस्यापत्यं = चाण्डालकिः । अनेन इप्र० → इ - अन्तस्याकारस्य अक् च । 'वृद्धिः स्वरेष्वादे०' (७।४।६१) वृ० आ ।
सुधातृ-व्यासाभ्यां 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) इत्यनेन अणोऽपवादः । वरुटात् 'सेनान्त०' (६।१।१०२) इति कारुलक्षणस्य ज्यस्यापवादः । शेषेभ्योऽपि 'अत इञ्' (६।१।३१) इत्यनेन इजि प्रा-र्थं वचनम् ॥ छ । ॐ श० म० न्या० - व्यस्यति - विस्तारयति वाचमिति व्यासः । 45 लघु-मध्यम-बृहवृत्त्यादिषु तथा हैमप्रकाशे च चण्डालादन्त्यस्य इत्येवं पाठोऽस्ति ।