________________
षष्ठाध्यायस्य प्रथमः पादः ।।
अत इञ् ॥ ६।१।३१ ।। [अतः] अत् पञ्चमी ङसि । [इञ् ] इञ् प्रथमा सि । 'ङसोऽपत्ये' (६।१।२८) इति वर्त्तते । अणोऽपवादः ।
[दाक्षिः] दक्षस्यापत्यम् । अनेन इप्र० → इ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७।४।१) वृ० आ ।
[इ:] अ । अस्य-विष्णोरपत्यम् = इ:-कामः । अनेन इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शौभंयः] शुभ 'यांक प्रापणे' (१०६२) या । शुभं यातीति । 'मन् - वन-क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत्' (१।१।३७) विच्लोपः । शुभंयोऽपत्यं = शौभंयः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) आलोपः ।
[कैलालपः ] कीलाल 'पां पाने' (२) पा । कीलालं पिबतीति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'अप्रयोगीत्' (१।१।३७) विच्लोपः । कीलालपोऽपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
त्यजस्व कोपं कुलकीर्तिनाशनम्, भजस्व धर्मं कुलकीर्तिवर्धनम् ।
प्रसीद जीवेम सबान्धवा वयम्, प्रदीयतां दाशरथाय मैथिली ॥१॥ [मैथिली] मिथिला । मिथिलाया अयं स्वामी । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । तस्यापत्यम् । 'ऋषिवृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० → अ । मिथिलस्य राज्ञोऽपत्यं वा । 'राष्ट्र-क्षत्रियात् सरूपाद् राजाऽपत्ये दिरञ्' (६।१।११४) अप्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णलोपः । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलुक् ।।
[दाशरथिः] दशरथस्यापत्यं = दाशरथिः । अनेन इप्र० → इ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
यतः सर्वोऽपि लोकः कालं दृष्ट्वा काकमित्येव व्यवहरति, न काकापत्यमिति काकाद्यपत्यविवक्षायां भवत्येव ।
[कुतश्चरति मायूरिः, केन कापिञ्जलिः कृशः] मयूरी । मयूर्या अपत्यम् । कपिञ्जलि । कपिञ्जलेरपत्यम् । अनेन इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।८) ई-इलुक् ।
एतेन काक्यादिभ्य एयणादयोऽपि विशेषप्रतीतौ व्याख्याताः, अन्यत्र जात्याभिहितत्वात् भवन्तीत्यर्थः ।
[क्रौञ्चः ] क्रुञ्च् । 'अजादेः' (२।४।१६) व्यञ्जनान्तादाप् । क्रुञ्चाया अपत्यम् । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[कौकिलः] कोकिलाया अपत्यम् । 'शिवादेरण' (६।१।६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णवर्णस्य' (७।४।६८) आलुक् ।
[गौधेरः] गोधा । गोधाया अपत्यम् । 'गोधाया दुष्टे णारश्च' (६।१।८१) एरण्प्र० → एर । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।