________________
२०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[श्यामगवः] श्यामगोरपत्यं = श्यामगवः । अत्र 'दोरीयः' (६।३।३२) इतीयो न भवति । अनेन अण्प्र० । वृद्धिः । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । अयमर्थः - उपगोरित्यस्य कम्बलेन संबद्धत्वान्न तत्संबन्धित्वेनापत्यं वक्तुमण्प्रत्यय: समर्थः ॥छ।।
आद्यात् ॥ ६।१।२९ ॥ [आद्यात् ] आद्य पञ्चमी ङसि । आदि । आदौ भवः = आद्यः । 'दिगादि-देहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७४।६८) इलोपः, तस्मात् ।
आद्यात् परमप्रकृतेरेवेति कोऽर्थः ? गर्गादिरूपात् न गागिरित्यादिरूपादित्यर्थः ।
[औपगवः] उपगोरपत्यमनन्तरं-वृद्धं वा = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४/७०) अव् । औपगवस्यापत्यमौपगवः । पुनरपि 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । आद्यात्-परमप्रकृतेरेवेति भणनात् प्रथमप्रत्ययस्याऽणो निवृत्तिरुक्ता नैमित्तिकाभावश्च अनेनैव सूत्रैण अतो(तः) पुनरपि वृद्धिरवादिकं कार्यम् । औपगवस्यापत्यं युवा = औपगविः । 'वृद्धाद् यूनि' (६।१।३०) इत्यस्यापवादः 'अत इज्' (६।१।३१) इप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । औपगवेरपत्यमौपगवः । 'ङसोऽपत्ये' (६।१।२८) पुनरपि अण् । आद्यात् इत्यनेन इतरप्रत्ययविषयेऽग्रेतनयोरण-इौ प्रत्यययोनिवृत्तिः क्रियते इत्यर्थः ।।
[गार्ग्यः] गर्ग । गर्गस्यापत्यं पौत्रमनन्तरं = गार्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । गार्ग्यस्यापत्यं = गार्गिः । 'अत इब्' (६।१।३१) इप्र० । अग्रेतनयञ्लोपे इप्र० → इ । गार्गि( )रपत्यं = गार्ग्यः । पुनः 'गर्गादेर्यञ्' (६।११४२) यप्र० । अनेन अग्रेतन इग्निवृत्तिः । गार्ग्यस्यापत्यं = गार्ग्यः । पुनरपि यञ् । यद्वा गार्ग्यस्यापत्यं युवा । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । गाायणस्यापत्यम् । पुनरपि यञ् । अनेन इतरप्रत्ययविषये अग्रेतनयोर्यञ्आयनणौ निवृत्तिः क्रियते इत्यर्थः । अनन्तरादयोऽपि परमप्रकृतिरूपेणैवापत्ये प्रत्ययमुत्पादयन्ति ॥छ।।
वृद्धाद् यूनि ॥ ६।१।३० ॥ [वृद्धात्] वृद्ध पञ्चमी ङसि ।
[यूनि] युवन् सप्तमी ङि । 'श्वन्-युवन्-मघोनो ङी-स्याद्यघुट्स्व रे व उ:' (२।१।१०६) व० → उ० । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः ।
[गाायणः ] गर्ग । गर्गस्यायपत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । गार्ग्यस्यापत्यं युवा = गाायणः । 'यजिञः' (६।१।५४) आयनणप्र० → आयन । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । _ [दाक्षायणः ] दक्ष । दक्षस्यापत्यं पौत्रमनन्तरम् । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । दाक्षेरपत्यं युवा । 'यञिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
_ [नाडायनिः] नड । नडस्यापत्यं वृद्धं = नाडायनः । 'नडादिभ्य आयनण्' (६।१।५३) आयनणप्र० → आयन । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । नाडायनस्यापत्यं युवा । 'अत इञ्' (६।१।३१) इप्र० →इ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
या आवस्थापत्य युवो। आयताइन् विशवन)