________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
[ चाटकैरः] चटका । चटकाया अपत्यम् । 'चटकाण्णैरः स्त्रियां तु लुप्' (६।१।७९) गैरप्र० ऐर । ‘वृद्धिः स्वरेष्वादेति तद्धिते' (७|४|१) वृ० आ । 'अवर्णेवर्णस्य' (७|४|६८) आलुक् ।
२२
।
= । ।
यमि नमि गमि हनि-मनि(५|१|१४२) कप्र०
[ क्षत्रं क्षत्रियः ] 'क्षणूग् हिंसायाम् ' (१५०१) क्षण् क्षणनं क्षत् क्विप्र० गमां क्वौ (४।२१५८) इति नलोपे 'ह्रस्वस्य तः पित्कृति' (४|४|११३) तोऽन्तः । दें (६०४) 'पालने' (६०५) । 'आत् सन्ध्यक्षरस्य (४२१) त्रा । क्षतस्त्रायते = क्षत्त्रः । क्षणनं = क्षतम् 'क्लीवे क्तः' (५।३।१२३) प्र० त वनति-तनादेर्धुटि क्ङिति ' ( ४।२।५५) नलोपः । क्षतात् त्रायते । 'स्था - पा-स्ना - त्रः कः' अ । उभयत्र 'इडेत्-पुसि चाऽऽतो लुक् (४१३२९४) आलुक् । पृषोदरादित्वात् निपातः । यद्वा आदि हिंसार्थः सौत्रो धातुः, क्षद् । क्षदते-हिनस्ति वधयति सर्वान् शत्रून् क्षत्र: 'हु-या-मा-श्रु-वसि भसि गु-वी पचि वचि-धू-यम्यमि-मनि। तनि-सदि-छादि-क्षि-क्षदि - लुपि-पति- धूभ्यस्त्र: ' ( उणा० ४५१ ) त्रप्र० । पृषोदरादित्वात् द्लोपः । क्षत्रस्यापत्यं क्षत्रियः । क्षत्रादियः' (६।११९३ ) इयप्र० । 'अवर्णवर्णस्य' (७|४।६८) अलुक् ।
= । - -
[ राजन्यः ] राजन् । राज्ञोऽपत्यं
=
[ मनुष्यः, मानुषः ] मनु । मनोरपत्यं षोऽन्तश्च वृद्धिः स्वरे' (अ४१) वृ० आ
o
= । ।
राजन्यः 'जातौ राज: ' ( ६ ११९२) व्यप्र०य ।
[ बाह्वादिभ्यः ] बाहुरादिर्येषां ते बाहवादयस्तेभ्यः ।
=
=
-
मनुष्यः मानुषः 'मनोर्याऽणी षश्चान्तः' (६।११९४ ) य अण्प्र० अ यत्र अण् तत्र वृद्धिः ॥
बाह्वादिभ्यो गोत्रे || ६|१|३२||
[ गोत्रे ] गोत्र सप्तमी ङि ।
स्वापत्यसन्तानस्य स्वव्यपदेशकारणमृषिरनृषिर्वा यः प्रथमः पुरुषस्तदपत्यं गोत्रम् |
अनकारान्तार्थो वाधकबाधनार्थ आरम्भः ।
।
।
[ बाहविः] बाहु । 'बाहोरपत्यं = वाहविः । अनेन इञ्प्र० इ वृद्धिः स्वरेष्वादेर्णिति तद्धिते' (७७४१) वृद्धि: । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
[ औदिञ्चिः ] उत् 'अञ्च गतौ च' उदञ्चोऽपत्यम् । अनेन इञ्प्र० इ पाठादनर्चायामपि नलोपाभावः ।
[ औपचाकविः ] उप-चाकु । चाको: समीपम् = उपचाकुः । उपचाकोरपत्यम् = औपचाकविः । अनेन इञ्प्र० →
इ 'वृद्धि: स्वरे०' (७४१) वृ० औ
'अस्वयम्भुवोऽव्' (७४।७०) अव् ।
(१०५) अञ्च् । उदञ्चतीति क्विप् । 'अप्रयोगीत् ' (१|१|३७) क्विप्लोपः । वृद्धिः स्वरे'० (७२४१) वृ० औ इहोदञ्चिति पैलादिषु चोदचीति सनकारस्य
I
। ।
[ बाहवः] योऽद्यत्वे बाहुर्नाम तस्यापत्यं = बाहवः 'ङसोऽपत्ये' (६|१|२८) अण्प्र० अ वृद्धिः स्वरे'० (७|४|१) वृद्धि: । 'अस्वयम्भुवोऽव्' (७|४|७)) अव् ।
संभवापेक्षं च गोत्रग्रहणम् तेन
[ पाचिः ] पञ्चानामपत्यं = पाञ्चिः ।
[ साप्तिः ] सप्तानामपत्यं =
साप्तिः ।
[ आष्टिः ] अष्टानामपत्यमाष्टि । अनेन इज्प्र० इ 'वृद्धिः स्वरे'० (७|४|१) वृ० आ । 'नोऽपदस्य तद्धिते'० (७|४|६१) अनुलोपः । प्रथमा सि 'सो रु' (२११७२) स०
I
२० ।