SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य चतुर्थः पादः ॥ ३१३ कुटिलिकाया अण् ।। ६।४।२६ ॥ [कुटिलिकाया ] कुटिल । कुटिलमग्रमस्त्यस्याम् । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । कुटिल्येव = कुटिलिका । स्वार्थे कप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । पञ्चमी ङसि । [अण्] अण् प्रथमा सि ।। कुटिलिकाशब्देनाग्रे वक्रा लोहादिमयी अङ्गाराकर्षणी यष्टिा, कुटिला गतिर्वा, पलालोत्क्षेपणोऽग्रे वक्रो दण्डो वा, परिव्राजकोपकरणविशेषो वा, चौराणां नौगृहाद्यारोहणार्थं दामाग्रप्रतिबद्ध आयसोऽर्द्धाङ्कुशो वोच्यते । [कौटिलिकः कारः] कुटिलिकया हरत्यङ्गारान् = कौटिलिकः । अनेन अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेफिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । कारः करोति । लोहादिघट्टनं कुटिलम् । 'कृगो मादिश्च' (उणा० ४०७) आरप्रत्ययो मादिः । [कौटिलिको मृगः] कुटिलिकया हरति व्याधं = कौटिलिक(को) मृगः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [कौटिलिकः कर्षकः] कुटिलिकया हरति पलालं = कौटिलिकः कर्षकः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [कौटिलिकः परिव्राजकः] कुटिलिकया हरति पुष्पाणि = कौटिलिकः परिव्राजकः । अनेन अण्प्र० → अ । 'वृद्धि: ॥१) वृद्धिः औं । 'अवर्णवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । [कौटिलिकश्चौरः] कुटिलिकया हरति नावं = कौटिलिकश्चौरः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । चौरः ॥छ।। ओजः-सहो-ऽम्भसो वर्तते ॥ ६।४।२७ ।। [ओजःसहोऽम्भसः] ओजाश्च सहाश्च अम्भाश्च = ओजःसहोऽम्भस्, तस्मात् । [ वर्तते] वर्त्तते सप्तमी ङि । सूत्रत्वात् लुप् । वृत्तिरात्मयापना चेष्टा वा । [औजसिकः] ओजस् । ओजसा बलेन वर्त्तते = औजसिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । [साहसिकः] परेणापराजयः = प्रसहनम् । सहसा प्रसहनेन-पराभिभवेन वा वर्तते = साहसिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'रः पदान्ते०' (१।३।५३) विसर्गः। [आम्भसिकः] अम्भसा-जलेन वर्त्तते = आम्भसिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते०' (१।३।५३) विसर्गः ॥छ।। तं प्रत्यनोर्लोमेप-कूलात् ।। ६।४।२८ ॥ [तम् ] तम् पञ्चमी ङसि ।। [ प्रत्यनोः ] प्रतिश्च अनुश्च = प्रत्यनु, तस्मात् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [313]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy