________________
३१४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[लोमेपकूलात् ] लोम च ईपश्च कूलश्च = लोमेपकूलम्, तस्मात् । तेनेति निवृत्तम् ।
[प्रातिलोमिकः] लोमानि प्रतिगतम् । 'प्रत्यन्ववात् साम-लोम्नः' (७।३।८२) अत्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७।४।६१) अन्लुक् । लोमानि प्रति । 'लक्षणेनाऽभि-प्रत्याभिमुख्ये' (३।१।३३) समासः । लोमानि प्रतिगतानि = प्रतिलोममिति बहुव्रीहिः । 'नपुंसकाद् वा' (७।३।८९) अत्समासान्तः → अ । 'नोऽपदस्य०' (७४।६१) अन्लुक् । प्रतिलोमं वर्त्तते = प्रातिलोमिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[आनुलोमिकः] अनु-लोमन् मण्ड्यते । लोमान्यनुगतम् = अनुलोमम् । 'प्रत्यन्ववात्' (७।३।८२) अत्समासान्तः → अ । 'नोऽपदस्य०' (७४/६१) अन्लुक् । अनुलोमं वर्त्तते = आनुलोमिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[प्रातीपिकः] प्रति-आप् मण्ड्यते । प्रतिगता आपो यत्र = प्रतीपम् । 'ऋक्-पू:-पथ्यपोऽत्' (७।३।७६) अत्समासान्तः + अ । 'द्व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) आप्० → ईप० । प्रतीपं वर्त्तते = प्रातीपिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[आन्वीपिकः] अनु-आप मण्ड्यते । अनुगता आपो यत्र = अन्वीपम् । 'ऋक्-पू:-पथ्यपोऽत्' (७३।७६) अत्समासान्तः → अ । 'व्यन्तरनवर्णोपसर्गादप ईप्' (३।२।१०९) आप्० → ईप० । प्रतीपं वर्त्तते = प्रातीपिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र०।
[प्रातिकूलिकः] प्रतिगतं कूलं = प्रतिकूलम् । प्रतिकूलं वर्त्तते = प्रातिकूलिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[आनुकूलिकः] अनुगतं कूलम् = अनुकूलम् । अनुकूलं वर्त्तते = आनुकूलिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
अकर्मकस्यापि वृत्तेोंगे प्रतिलोमादेः क्रियाविशेषणत्वात् द्वितीया । तदिति कृते हि प्रथमान्तमिदं द्वितीयान्तमिति वा संशयः स्यात् । तमिति पुल्लिङ्गनिर्देशोऽसन्देहार्थः ॥छ।।
परेर्मुख-पार्वात् ॥ ६।४।२९ ॥ [परेः] परि पञ्चमी ङसि । [ मुखपार्वात् ] मुखश्च पार्श्वश्च = मुखपार्श्वम्, तस्मात् ।
[पारिमुखिकः ] मुखात् परि = परिमुखम् । 'पर्यपा-ऽऽङ्' (३।१।३२) अव्ययीभावः । परितः सर्वतो मुखं = परिमुखम् । 'परिमुखादेरव्ययीभावात्' (६।३।१३६) इति वचनात् अव्ययीभावः । परिमुखं वर्त्तते = पारिमुखिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[पारिपाश्चिकः] परितः पाश्र्वं पार्वात् परीति वा = परिपार्श्वम् । परिपार्वं वर्त्तते = पारिपाश्विकः । अनेन इकण्प्र० - इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
द्वितीयवाक्यं मध्ये सर्वत्र 'क्रियाविशेषणात्' (२।२।४१) इति द्वितीया । परिवर्जने सर्वतोभावे वा । स्वामिनो मुखं वर्जयित्वाच्च वर्तमानो अथवा यतो यतः स्वामिमुखं ततस्ततो वर्तमानः पारिमुखिकः सेवकः । एवमग्रेऽपि । यस्मात् = यतः । तस्मात् = ततः । 'आद्यादिभ्यः' (७।२।८४) तस्प्र० । पृषोदरादित्वात् दलोपः, ततो द्वित्वम् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[314]