________________
३१२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ उत्सङ्गादेः] उत्सङ्ग आदिर्यस्य सः = उत्सङ्गादिः, तस्मात् ।
[औत्सङ्गिकः] उत्सङ्गेन हरति = औत्सङ्गिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
[औत्रुपिकः] उत्रुपेन हरति = औत्रुपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[औडुपिकः] उडुपेन हरति = औडुपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ___ [प] तुप (३४३) - तुम्प (३४४) - 'त्रुप हिंसायाम्' (३४५) त्रुप्, उत्पूर्व० । उत्त्रोपति । 'नाम्युपान्त्य-प्रीकृ-गृ-ज्ञः कः' (५।११५४) कप्र० → अ ।
[उडुप] उत् उटि सौत्रो धातुः । उ(ओ)टतीति । 'पम्पा-शिल्पादयः (उणा० ३००) उडुपनिपात्यते(?) ('उड सङ्घाते' (सौत्र० २९) उड् । ओडति-उड्यते । 'उडेरुपक्' (उणा० ३११) उपक्प्र० → उप) । ॥छ।।
भस्त्रादेरिकट् ॥ ६।४।२४ ॥ [भस्त्रादेः] भस्त्रा आदिर्यस्य सः = भस्त्रादिः, तस्मात् । [इकट] इकट् प्रथमा सि ।।
[भस्त्रिकः, भस्त्रिकी] भस्त्रया हरति = भस्त्रिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी ।
[भरटिकः, भरटिकी] भरटेन हरति = भरटिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । भरट उडुप कथ्यते ? ॥छ।।
विवध-वीवधाद् वा ॥ ६।४।२५ ॥ [विवधवीवधात्] विवधश्च वीवधश्च = विवधवीवधम्, तस्मात् । [वा] वा प्रथमा सि ।
'वधि बन्धने' (७४६) वध्, विपूर्व० । विवध्यते दौःस्थ्येनेति विवधः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । 'न जन-वधः' (४।३।५४) वृद्ध्यभावः । अन्यत्र 'घञ्युपसर्गस्य बहुलम्' (३।२।८६) दीर्घः ।
[विवधिकः, विवधिकी] विवधेन हरति = विवधिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[वीवधिकः, वीवधिकी] वीवधेन हरति = वीवधिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।
[वैवधिकः, वैवधिकी] विवधेन हरति = वैवधिकः । इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी ।
विवधवीवधशब्दौ समानार्थों केटककोष्यां पथि पर्याहारे च वर्तेते ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[312]