________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३११
निर्वृत्तेऽक्षयूताऽऽदेः ॥ ६।४।२० ॥ [निर्वृत्ते] निर्वृत्त सप्तमी ङि। [अक्षयूताऽऽदेः ] अक्षयूत(तं) आदिर्यस्य सः = अक्षयूताऽऽदिः, तस्मात् ।
[आक्षयूतिकं वैरम् ] अक्षयूतेन निर्वृत्तम् = आक्षिकम् (आक्षयूतिकम्) । अनेन इकणप्र० → इक । 'वृद्धि: स्वरेष्वादे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् । वैरम् ।
[जायाप्रहतिकं वैरम् ] जङ्घाप्रहतेन निर्वृत्तं = जाङ्घाप्रहतिकम् । अनेन इकण्प्र० → इक । 'वृद्धि:०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
भावादिमः ॥ ६।४।२१ ॥
[भावात् ] भाव पञ्चमी ङसि । [इमः ] इम प्रथमा सि । [पाकिमम् ] पाकेन निर्वृत्तं = पाकिमम् । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [ सेकिमम् ] सेकेन निर्वृत्तं = सेकिमम् । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् । [त्यागिमम् ] त्यागेन निर्वृत्तं = त्यागिमम् । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[रागिमम् ] 'रञ्जी रागे' (८९६) रञ्ज । रञ्जनं = रागः । 'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ। 'घत्रि भावकरणे'(४।२।५२) नलुक् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'क्तेऽनिटश्च-जोः क-गौ घिति' (४।१।१११) ज० → ग० । रागेण निर्वृत्तं = रागिमम् । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।
[कुट्टिमम् ] 'कुट्टण कुत्सने च' (१५९८) कुट्ट । 'चुरादिभ्यो णिच्' (३।४।१७) णिच्प्र० । कुट्टनं = कुट्टः । 'युवर्ण-वृ-दृ०' (५।३।२८) अल्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । कुट्टेन निर्वृत्तं = कुट्टिमम् । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[संमर्छिमम ] संमछा । संमर्छया निर्वत्तं = संमर्छिमम् । अनेन इमप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक । सि-अम् ।।छ।।
याचिता-ऽपमित्यात् कण ॥ ६।४।२२ ॥ [याचिताऽपमित्यात् ] याचितश्च अपमित्यश्च = याचिताऽपमित्यम्, तस्मात् । [ कण् ] कण् प्रथमा सि । [याचितकम् ] याचितं मण्ड्यते । याचितेन याचनया निर्वृत्तं = याचितकम् । अनेन कण्प्र० → क । वृद्धिः ।
[आपमित्यकम् ] अपमान मण्ड्यते । अपमानं निवर्तयति = अपमित्य । 'निमील्याऽऽदि-मेङस्तुल्यकर्तृके' (५।४।४६) मित्यनिपात्यते । अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम् । अनेन कण्प्र० → क । वृद्धिः ॥छ।।
__ हरत्युत्सङ्गादेः ॥ ६।४।२३ ।। [हरति] 'हंग हरणे' (८८५) ह । हरतीति हरत् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'नामिनो०' (४।३।१) गु० अर् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक्, तस्मिन् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [311]