________________
३१०
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[च] च प्रथमा सि । [क्रयविक्रयात् ] क्रयश्च विक्रयश्च = क्रयविक्रयम्, तस्मात् । [इकः] इक प्रथमा सि ।
[क्रयविक्रयिकः] क्रयेण युक्तो विक्रयः = क्रयविक्रयः । क्रयविक्रयेण जीवति = क्रयविक्रयिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[क्रयिकः] क्रयेण जीवति = क्रयिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
[विक्रयिकः] विक्रयेण जीवति = विक्रयिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
वस्नात् ॥ ६।४।१७ ॥ [वस्नात् ] वस्न पञ्चमी ङसि ।
[वस्निकः ] 'वसं निवासे' (९९९) वस् । वसन्ति क्रयाणका(दी)नि वेश्मन्यनेन । प्या-धा-पन्यनि-स्वदि-स्वपिवस्यज्यति-सिविभ्यो नः (उणा० २५८) नप्र० । वस्न-मूल्यम्, तेन जीवति = वस्निकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
आयुधादीयश्च ॥ ६।४।१८ ॥ [आयुधात्] आयुध पञ्चमी ङसि । [ईयश्च] ईय प्रथमा सि । च प्रथमा सि ।
[आयुधीयः, आयुधिकः, आयुधिका] आयुधेन जीवति = आयुधीयः, आयुधिकः । अनेन ईय - इकश्च प्रत्ययः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । अन्यत्र 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
वातादीनञ् ॥ ६।४।१९ ॥ [व्रातात्] व्रात पञ्चमी ङसि । [ईनञ् ] ईनञ् प्रथमा सि ।
[वातीनः] नानाजातीय(या)-भिन्नजातीया ब्राह्मण-क्षत्रिय-विट-शूद्राः । अनियत आहरतु-अनियतक्रिया इत्यर्थः । वृत्तयः शरीरमायास्य जीवन्तो मृतकाः = भारवाहका इत्यर्थः । शरीरायासजीविनः सङ्घा वाताः, तत्साहचर्यात, तत्कर्मापि वातम्, तेन जीवति = व्रातीनः । अनेन ईनप्र० → ईन । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[वातीनाभार्यः] व्रातीन 'आत्' (२।४।१८) आप्प्र० → आ । व्रातीना भार्या यस्य सः = व्रातीनाभार्यः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । 'परतः स्त्री०' (३।२।४९) इत्यनेन अत्र पुंवत् प्राप्नोति । 'तद्धितः स्वरवृद्धिहेतुररक्तविकारे' (३२।५५) इत्यनेन न भवति ॥छ।।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st • 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[310]