________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३०९
[पर्पिकः, पर्पिकी ] पर्पण-चापकेन चरति = पर्पिकः । अनेन इकटप्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी ।
[अश्विकः, अश्विकी] अश्वेन चरति = अश्विकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'अणजेयेकण्०' (२।४।२०) ङी ॥छ।।
पदिकः ॥ ६।४।१३ ॥ [पदिकः ] पदिक प्रथमा सि ।
[पदिकः ] पाद । पादाभ्यां चरति = पदिकः । अनेन इकटप्र० → इक - पादशब्दस्य पद् इति निपात्यते । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।।
श्वगणाद् वा ।। ६।४।१४ ।।
[श्वगणात्] शुनां गणः = श्वगणः, तस्मात् । [वा] वा प्रथमा सि ।
[श्वगणिकः, श्वगणिकी, श्वागणिकः, श्वागणिकी] श्वन्-गण । शुनां गणः = श्वगणः । श्वगणेन चरति = श्वगणिकः । अनेन इकट्प्र० → इक । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । अन्यत्र 'अणजेयेकण्' (२।४।२०) ङी । पक्षे-'चरति' (६।४।११) इत्यनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । अन्यत्र 'अणजेयेकण-नञ्' (२।४।२०) ङी । 'वादेरिति' (७।४।१०) इति वात्प्रागौर्न भवति ॥छ।।
वेतनादेर्जीवति ॥ ६।४।१५ ॥ [ वेतनादेः ] वेतनं आदिर्यस्य सः = वेतनादिः, तस्मात् ।
[जीवति ] 'जीव प्राणधारणे' (४६५) । जीव् । जीवतीति जीवत् । 'शत्रनशा०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । तस्मिन् ।
[वैतनिकः] वेतनेन जीवति = वैतनिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वाहिकः] वाहेन जीवति = वाहिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।।
[अर्द्धवाह] अर्द्ध वाहस्य-अर्द्धस्य वहनं वा = अर्द्धवाह ।
[उपनिजस्त ] उप-नि 'जसूच् मोक्षणे' (१२२३) जस् । उपनिजस्यति स्म = उपनिजस्त । 'गत्यर्थाऽकर्मक०' (५।१।११) क्तप्र० → त ।
[स्फिज] 'स्फायैङ् वृद्धौ' (८०४) स्फाय । स्फायते = स्फिज । बाहुलकात् इजप्र० डित् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ॥छ।।
व्यस्ताच्च क्रय-विक्रयादिकः ॥ ६।३।१६ ॥
[व्यस्तात् ] व्यस्त पञ्चमी ङसि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [309]