________________
३०८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
नौ-द्विस्वरादिकः ॥ ६।४।१० ॥
[नौद्विस्वरात्] द्वौ स्वरौ यस्य सः = द्विस्वरः । नौश्च द्विस्वरश्च = नौद्विस्वरम्, तस्मात् । [इकः] इक प्रथमा सि ।
[नाविकः, नाविका] नौ । नावा तरति = नाविकः । अनेन इकप्र० । 'ओदौतोऽवाव्' (१।२।२४) आव् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अन्यत्र 'आत्' (२।४।१८) आप्प्र० → आ । प्रथमा सि । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् ।
द्विस्वर-[ घटिकः] घटेन तरति = घटिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । [प्लविकः] प्लवेन तरति = प्लविकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । [दृतिकः] दृति मण्ड्य ते । दृतिना तरति = दृतिकः । अनेन इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[बाहुकः, बाहुका] बाहुभ्यां तरति = बाहुकः, बाहुका । अनेन इकप्र० । 'ऋवर्णोवर्ण.' (७४।७१) इकस्य इलोपः । अन्यत्र 'आत्' (२।४।१८) आप्प्र० → आ ॥छ।।
चरति ॥ ६।४।११ ॥ [चरति ] 'चर भक्षणे च' (४१०) चर् । चरतीति चरत् । 'शत्रानशावेष्यति०' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक्, तस्मिन् ।
चरतिरिह गत्यर्थो भक्ष्यर्थश्च गृह्यते ।
गत्यर्थः-[हास्तिकः] हस्तिन् । हस्तिना चरति = हास्तिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लुक् ।
[शाकटिकः] शकटेन चरति-गच्छति = शाकटिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[घाण्टिकः] घण्टया चरति-गच्छति = घाण्टिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[आकषिकः] 'कष हिंसायाम्' (५०७) कष्, आपर्व० । आकषन्ति सुवर्णे(ग) अत्र = आकषः । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । यद्वा आकषन्ति औषधान्यत्र । 'पुन्नाम्नि घः' (५।३।१३०) घप्र० → अ । आकषेन चरति = आकषिकः । अनेन इकण्प्र० → इक । वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । आकषः सूवर्णनिकषोपलः औषधपेषणपाषाणश्च ।
भक्ष्यर्थः-[दाधिकः] दना चरति-भक्षयति = दाधिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आ । 'अवर्णे' (७४।६८) इलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[शाईवेरिकः] शृङ्गवेरेण-आर्द्रकेण चरति-भक्षयति = शाङ्गवेरिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः आर् । 'अवर्णे' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
पर्यादेरिकट ।। ६।४।१२ ।। [पादेरिकट] पर्प आदिर्यस्य सः = पर्पादिः, तस्मात् । इकट् प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [308]|