________________
षष्ठाध्यायस्य चतुर्थः पादः ॥
३०७
[चूर्णिन्यो धानाः] चूर्णैः संसृष्टाः = चूर्णिन्यः । अनेन इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । प्रथमा जस् । धानाः ।
[ मौद्ग ओदनः ] मुद्गैः संसृष्टः = मौद्गः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[ मौद्गी यवागूः ] मुद्गैः संसृष्टा = मौद्गी । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ । 'अवर्णे०' (७।४।६८) अलुक् । 'अणजे०' (२।४।२०) डी ॥छ।।
व्यञ्जनेभ्य उपसिक्ते ॥ ६४८ ॥ [व्यञ्जनेभ्यः] व्यञ्जन पञ्चमी भ्यस् । 'एद् बहुस्भोसि' (१।४।४) ए । [ उपसिक्ते ] उपसिक्त सप्तमी ङि ।
[सौपिक ओदनः] सूपेनोपसिक्तः = सौपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ओदनः
[दाधिक ओदनः] दध्ना उपसिक्तः = दाधिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । ओदनः । ___ [घार्तिकः सूपः] घृतेन उपसिक्तः । अनेन इकण्प्र० → इक । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सूपः ।।
[तैलिकं शाकम् ] तै(ति)लेनोपसिक्तं = तैलिकम् । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । शाकम् ।
व्यञ्जनशब्दो रूढितः सूपादौ वर्त्तते । उपसिक्तमिति यद्भोजनार्थमुपादीयते भोज्यादि तदुच्यते, न स्थाल्यादि । उपसिक्तं संसृष्टमेव । तत्र 'संसृष्टे' (६।४।५) इत्येव सिद्धे नियमार्थं वचनम् । व्यञ्जनैः संसृष्टे उपसिक्त एव, भोक्तव्य एव, उपसिक्ते व्यञ्जनैरेव ॥छ।।
तरति ॥ ६।४।९ ॥ [तरति] 'तृ प्लवन-तरणयोः (२७) तृ । तरतीति तरत् । 'शत्रान०' (५।२।२०) शतृप्र० → अत् । 'कर्तर्यनद्भ्यः शव्' (३।४/७१) शव् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक्, तस्मिन् ।
[औडुविकः] उडुवेन - तरति = औडुविकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[काण्डप्लविकः] काण्डप्लवेन तरति = काण्डप्लविकः । अनेन इकण्प्र० → इक । 'अवर्णवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[शारप्लविकः] शरप्लवेन तरति = शारप्लविकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[गौपुच्छिकः] गोपुच्छेन तरति = गौपुच्छिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।। 5 लघुवृत्तौ - मध्यमवृत्तौ च - औडुपिकः ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (D) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [307]