________________
३००
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[सुदामतः ] सुदाम्ना एकदिग् = सुदामतः । अनेन तसिप्र० → तस् । [ सूर्यतः ] सूर्येण एकदिग् = सूर्यतः । [हिमवत्तः] हिमवता एकदिग् = हिमवत्तः ।
[त्रिककुत्तः] त्रिककुदा एकदिग् = त्रिककुत्तः । अनेन तसिप्र० → तस् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → तक।
[पीलुमूलतः] पीलमूलेन एकदिग् = पीलुमूलतः । [पार्श्वतः] पाइँन एकदिग् = पार्श्वतः ।
[ पृष्ठतः ] पृष्ठेन एकदिग् = पृष्ठतः । अनेन सर्वत्र तसिप्र० → तस् । सर्वत्र प्रथमैकवचनं सि । 'अव्ययस्य' (३।२।७) सिलुप्।
इकारो 'वत्-तस्याम्' (१।१।३४) इत्यत्र विशेषणार्थः ॥छ।।
यश्चोरसः ॥ ६।३।२१२ ॥
[यश्च ] य प्रथमा सि । च प्रथमा सि । [ उरसः] उरस् पञ्चमी ङसि । 'टस्तुल्यदिशि' (६।३।२१०) इत्यनेन प्राप्तस्यापवादः ।
[उरस्यः, उरस्तः] उरस् । उरसा एकदिक् = उरस्यः, उरस्तः । अनेन य-तस्प्र० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
सेनिवासादस्य ॥ ६।३।२१३ ॥
[सेर्निवासात् ] सि पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ए । 'एदोद्ध्यां०' (१।४।३५) ङसि० → र० । निवास पञ्चमी ङसि ।
[अस्य ] अस्य सप्तमी ङि । सूत्रत्वाल्लुप् । निवसन्त्यस्मिन्निति निवासो देश उच्यते ।
[स्त्रौघ्नः] स्रुघ्नो निवासोऽस्य = स्रौघ्नः । अनेन 'प्राग जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
[माथुरः] मथुरा निवासोऽस्य = माथुरः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।।
[नादेयः] नदी निवासोऽस्य सः = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[राष्ट्रियः] राष्ट्र निवासोऽस्य सः = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रु:' (२।१।७२) स० → र० ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [300]