________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२९९
[यौगन्धरकः, यौगन्धरः] युगन्धराणां राष्ट्रस्य राजा, युगन्धरस्य राज्ञोऽपत्यं = यौगन्धरिः । 'साल्वांश-प्रत्यग्रथ०' (६।१।११७) इप्र० → इ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । यौगन्धरं भजति = यौगन्धरकः यौगन्धरः । अनेन 'कुरु-युगन्धराद् वा' (६।३।५३) अकञ्प्र० → अक । पक्षे 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ - युगन्धरदेशश्च । वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[ऐक्ष्वाकः] इक्ष्वाकु । इक्ष्वाकोरपत्यानि । 'राष्ट्र-क्षत्रियात्०' (६।१११४) अप्र० । 'बहुष्वस्त्रियाम्' (६।१।१२४) अञ्लुप् । इक्ष्वाकून् भजति, ऐक्ष्वाकून् भजति = ऐक्ष्वाकः । 'कोपान्त्याच्चाऽण्' (६।३।५६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'सारवैश्वाक०' (७।४।३०) उलोपः ।
[पौरवीयम् ] पुरु मण्ड्य ते । पुरोरपत्यं-अपत्ये-अपत्यानि वा । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । पौरवं भजति = पौरवीयम् । 'दोरीयः (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । सि-अम् ।
[पाञ्चालः ] पञ्चालान् ब्राह्मणान् भजति = पाञ्चालः । 'उत्सादेरञ्' (६।१।१९) अप्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
पूर्वलिखितप्रयोगापेक्षया अन्यत्र नास्ति विशेष इत्युक्तम् । यावता अवन्त्यं राजानं भजति इति कृतेऽस्त्येवावन्तक इत्यत्र विशेषः । अन्यथा आवन्त्येति स्थितेऽकजि अनापत्यत्वात् यकारस्य लुक् न स्यात् इति विशेषः ॥छ।।
टस्तुल्यदिशि ॥ ६।३।२१० ॥ [टः ] टा पञ्चमी ङसि । 'लुगाऽऽतोऽनाप: (२।१।१०७) आलुक् । [ तुल्यदिशि] तुल्या समाना साधारणा दिक् यत्र तत् = तुल्यदिक्, तस्मिन् ।
[सौदामनी विद्युत् ] सुदामन् मण्ड्यते । शोभनानि दामानि माला यत्र स(सा) = सुदामा । सुदाम्ना एकदिक् = सौदामनी । 'अणि' (७।४।५२) इत्यन्त्यस्वरादिलोपाभावः । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः
औ । 'अणजेयेकण्०' (२।४।२०) ङी, विद्युत् । सुदामा नाम पर्वतो यस्यां दिशि तस्यां दिशि विद्युत् तेन सा सुदाम्ना सहैकदिगुच्यते ।
[सौरी बलाका] सूर्येण सहकदिग् = सौरी । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । 'सूर्याऽऽगस्त्ययोरीये च' (२।४।८९) यलुक् । बलाका ।
[ हैमवती गङ्गा ] हिमवत् । हिमवता एकदिग् = हैमवती । अनेन 'हेमन्ताद् वा तलुक् च' । (६।३।९१) अण्प्र० → अ। वृद्धिः ऐ । 'अणजेयेकण' (२।४।२०) ङी । गङ्गा ।
[त्रैककुदी लङ्का] त्रि-ककुद् । त्रीणि ककुदाकाराणि श्रृंगाणि यस्य । 'त्रिककुद् गिरौ' (७।३।१६८) त्रिककुद् निपात्यते । त्रिककुदा एकदिक् = त्रैककुदी । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । वृद्धिः ऐ । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् । लङ्का ॥छ।।
तसिः ॥ ६।३।२११ ॥ [तसिः] तसि प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते०' (१३५३) विसर्गः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [299]