________________
षष्ठाध्यायस्य तृतीयः पादः ॥
३०१
आभिजनात् ॥ ६।३।२१४ ॥ [आभिजनात् ] अभिमतं ज्ञायन्ते = अभिजनः । 'अच्' (५।११४९) अच्प्र० → अ । 'जनैचि प्रादुर्भावे' (१२६५) इत्यस्य प्रयोगः । अभिजन:-पूर्वबान्धवाः, तेषामयमाभिजनः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्, तस्मात् ।
[स्रौनः ] स्रुघ्नोऽस्याभिजनो निवासः = स्रौघ्नः । अनेन 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[माथुरः] मथुरा अस्याभिजनो निवासः = माथुरः । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[नादेयः] नदी अस्याभिजनो निवासः = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[राष्ट्रियः] राष्ट्रोऽस्याभिजनो निवासः = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ॥छ।।
शण्डिकादेयः ॥ ६।३।२१५ ॥
[शण्डिकादेर्यः] शण्डिक आदिर्यस्य सः = शण्डिकादिः, तस्मात् ॥ ण्य प्रथमा सि ।
अणाद्यपवादः । आदिशब्दात् ईयाको परिग्रहः ।
ये पर्वतवाचिनः शण्डिकादयः तेभ्यः शस्त्रजीविषु वाच्येषु व्यस्यापवादो ण्यप्रत्ययो अशस्त्रजीविषु त्वण एव । ये जनपदशब्दास्तेभ्योऽकञः शण्डिकशब्दाज्जनपदवृत्तेरितरस्माच्च 'कोपान्त्याच्चाऽण' (६।३।५६) इत्यनेन विहित अणः इति
न्यासः ।
[शाण्डिक्यः] शण्डिक आभिजनो निवासोऽस्य = शाण्डिक्यः । अनेन ण्यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[कौचवार्यः] कूचवार आभिजनो निवासोऽस्य = कौचवार्यः । अनेन ण्यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[शण्डिक] अवश्यं शण्डते । 'णिन् चाऽऽवश्यकाऽधमर्ये (५।४।३६) णिन्प्र० → इन् । शण्डी एव = शण्डिक । स्वार्थे कप्र० । __ [कूचवार ] कुच 'वृग्ट् वरणे' (१२९४) वृ । वृण्वन्तं प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । कुचं वारयतीति कूचवारः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णेरनिटि' (४।२।८३) णिग्लुक् । बाहुलकाद्दीर्घः ॥छ।।
सिन्ध्वादेरञ् ॥ ६।३।२१६ ।। [सिन्ध्वादेः] सिन्धुरादिर्यस्य सः = सिन्ध्वादिः, तस्मात् । [अञ्] अञ् प्रथमा सि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [301]