________________
२९४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[नादेयम् ] नदीमभिनिष्क्रामति कन्यकुब्जद्वारं = नादेयम् । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरेष्वा०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् । सि-अम् ।
- [राष्ट्रियं द्वारम् ] राष्ट्रमभिनिष्क्रामति कन्यकुब्जद्वारं = राष्ट्रियम् । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
रचनाबहिर्भावे वा निःक्रमिः । अस्मिन् व्याख्याने स्रुघ्नादेर्लक्षणवीप्सेत्यनेन अभिशब्दयोगे द्वितीयान्तेन धातोरकर्मकत्वात् रचनाया बहिनिर्गत इत्यर्थः । यथा गृहकोणो नि:क्रान्तः ॥छ।।
गच्छति पथिदूते ॥ ६।३।२०३ ॥ [गच्छति ] गच्छतीति गच्छत्, तस्मिन् । [पथिदूते ] पन्थाश्च दूतश्च = पथिदूतम्, तस्मिन् । पथिन् सप्तमी ङि । ‘इन् ङी-स्वरे लुक्' (१।४।७९) इन्लुक् ।
[सौनः पन्था दूतो वा] स्रुघ्नं गच्छति = स्रौघ्नः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । पन्था दूतो वा । दूतः सन्देशहारक इत्युक्तम् ।
[माथुरः] मथुरायां(रां) गच्छति = माथुरः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
[नादेयः] नद्यां(दी) गच्छति = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) ईलुक् ।
[राष्ट्रियः] राष्ट्रे(ट्र) गच्छति = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पथिस्थेषु गच्छत्सु तद्धेतुः पुरुषगमनहेतुः पन्था अपि गच्छतीत्युच्यते । स्रुघ्नादिप्राप्तिर्वा पथो गमनम् ॥छ।।
भजति ।। ६।३।२०४ ॥ [भजति ] भजतीति भजत्, तस्मिन् । ।
[स्त्रौघ्नः] स्रुघ्नं भजति = स्रोघ्नः । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[माथुरः] मथुरां भजति = माथुरः । अनेन 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[नादेयः] नदीं भजति = नादेयः । 'नद्यादेरेयण' (६।३।२) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् ।
[राष्ट्रियः] राष्ट्रं भजति = राष्ट्रियः । 'राष्ट्रादियः' (६।३।३) इयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
महाराजादिकण् ॥ ६।३।२०५ ॥
[महाराजात् ] महाराज पञ्चमी ङसि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[294]