________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२९३
[सीताहरणीयः] सीताया हरणं = सीताहरणम् । सीताहरणमधिकृत्य कृतो ग्रन्थः = सीताहरणीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[सीतान्वेषणीयः] सीताया अन्वेषणं = सीतान्वेषणम् । सीतान्वेषणमधिकृत्य कृतो ग्रन्थः = सीतान्वेषणीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[शैशुक्रन्दम् ] शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः = शैशुक्रन्दम् । 'अमोऽधिकृत्य ग्रन्थे' (६।३।१९८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ॥छ।।
द्वन्द्वात् प्रायः ।। ६।३।२०१ ।। [द्वन्द्वात् ] द्वन्द्व पञ्चमी ङसि । 'डे-ङस्योर्याऽऽतौ' (१।४।६) ङसि० → आत् । [प्रायः ] प्रायस् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[वाक्यपदीयम् ]वाक्यं च तत् पदं च = वाक्यपदम् । वाक्यपदमधिकृत्य कृतो ग्रन्थः = वाक्यपदीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
[द्रव्यपर्यायीयम् ] द्रव्यश्च पर्यायश्च = द्रव्यपर्यायौ, तौ अधिकृत्य कृतो ग्रन्थः = द्रव्यपर्यायीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[शब्दार्थसम्बन्धीयम् ] शब्दश्च अर्थश्च = शब्दार्थों, तयोः सम्बन्धः = शब्दार्थसम्बन्धः, तमधिकृत्य कृतो ग्रन्थः = शब्दार्थसम्बन्धीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[श्येनकपोतीयम् ] श्येनश्च कपोतश्च = श्येनकपोतम् । नित्यं वैरत्वात् समासः । श्येनकपोतमधिकृत्य कृतो ग्रन्थः = श्येनकपोतीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम् ।।
[दैवासुरम् ] देवाश्च असुराश्च = देवासुरम् । देवासुरमधिकृत्य कृतो ग्रन्थः = दैवासुरम् । 'अमोऽधिकृत्य ग्रन्थे' (६।३।१९८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[राक्षोऽसुरम् ] रक्षस्-असुर मण्ड्य ते । रक्षांसि च असुराश्च = रक्षोऽसुराः, तानधिकृत्य कृतं ग्रन्थं = राक्षोऽसुरम् । 'अमोऽधिकृत्य ग्रन्थे' (६।३।१९८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[गौणमुख्यम् ] गुणश्च मुख्यं च = गुणमुख्ये, तेऽधिकृत्य कृतं ग्रन्थं = गौणमुख्यम् । 'अमोऽधिकृत्य ग्रन्थे' (६।३।१९८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ॥छ।।
अभिनिष्क्रामति द्वारे ॥ ६।३।२०२ ॥ [अभिनिष्क्रामति] अभि-निर् 'क्रम पादविक्षेपे' (३८५) क्रम् । अभिनिःक्रामतीति अभिनिष्क्रामत्, तस्मिन् । [द्वारे ] द्वार सप्तमी ङि ।।
[सौनं कन्यकुब्जद्वारम् ] स्रुघ्न मण्ड्यते । स्रुघ्नमभिनिष्क्रामति कन्यकुब्जद्वारं = स्रौघ्नम् । 'प्राग् जितादण' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वा०' (७४।१) वृद्धि: औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[माथुरम् ] मथुरामभिनि:क्रामति कन्यकुब्जद्वारं = माथुरम् । 'प्राग् जितादण्' (६।१।१३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । सि-अम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [293]