________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
अमोऽधिकृत्य ग्रन्थे । ६।३।१९८ ॥
[अमोऽधिकृत्य] अम् पञ्चमी ङसि । अधिकृत्य प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [ग्रन्थे] ग्रन्थ सप्तमी ङि ।
[सौभद्रः] सुभद्रा । सुभद्रामधिकृत्य उद्दिश्य कृतो ग्रन्थः = सौभद्रः । अनेन अण्प्र० → अ । वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[भाद्रः] भद्रामधिकृत्य कृतो ग्रन्थः = भाद्रः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[सौतारः] सुतारामधिकृत्य कृतो ग्रन्थः = सौतारः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[भैमरथी] भीमरथं राजानमधिकृत्य कृताख्यायिका = भैमरथी । अनेन अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण' (२।४।२०) ङी । कथा ॥छ।।
ज्योतिषम् ॥ ६।३।१९९ ॥ [ज्योतिषम् ] ज्योतिष्(स्) सि-अम् ।
[ज्योतिषम् ] ज्योतिस् । ज्योतींषि अधिकृत्य कृतो ग्रन्थः = ज्योतिषम् । अनेन अण्प्र० → अ - निपात्यते च । सि-अम् ॥छ।।
शिशुक्रन्दादिभ्य ईयः ॥ ६।३।२०० ।। [शिशुक्रन्दादिभ्यः] शिशुक्रन्द आदिर्येषां ते = शिशुक्रन्दादयः, तेभ्यः । [ईयः] ईय प्रथमा सि ।
[शिशुक्रन्दीयः] शिशुक्रन्दमधिकृत्य कृतो ग्रन्थः = शिशुक्रन्दीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० ।
[यमसभीयः] यमस्य सभा = यमसभम् । शालां विना सभा । राजवजितेत्यादिना राक्षसादित्वात् क्लीबत्वम् । 'क्लीबे' (२।४।९७) हुस्वः । यमसभमधिकृत्य कृतो ग्रन्थः = यमसभीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
- [इन्द्रजननीयः] इन्द्रस्य जननः = इन्द्रजननः । इन्द्रजननमधिकृत्य कृतो ग्रन्थः = इन्द्रजननीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[प्रद्युम्नप्रत्यागमनीयः] प्रद्युम्नस्य-कामस्य प्रत्यागमनं = प्रद्युम्नप्रत्यागमनम् । प्रद्युम्नप्रत्यागमनमधिलक्षीकृत्य कृतो ग्रन्थः = प्रद्युम्नप्रत्यागमनीयः । अनेन ईयप्र० । 'अवर्णवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[प्रद्युम्नोदयनीयः] प्रद्युम्नश्च उदयनश्च, तमधिलक्षीकृत्य कृतो ग्रन्थः = प्रद्युम्नोदयनीयः । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[292]