________________
षष्ठाध्यायस्य तृतीयः पादः ॥
यदि महाराजशब्दो वैश्रवणार्थस्तदा ईयः स्यात् । [इकण्] इकण प्रथमा सि ।
[माहाराजिकः] महत्-राजन् । महांश्चासौ राजा च = महाराजः । 'राजन्-सखेः' (७।३।१०६) अट्समासान्तः → अ । 'नोऽपदस्य तद्धिते' (७४/६१) अन्लुक् । महाराजं भजति = माहाराजिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेर्णिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
अचित्ताददेशकालात् ॥ ६।३।२०६ ॥ [अचित्तात् ] अचित्त पञ्चमी ङसि ।
[अदेशकालात् ] देशश्च कालश्च = देशकालम् । न देशकालम् = अदेशकालम्, तस्मात् । 'नजत्' (३।२।१२५) न० → अ०।
[आपूपिकः] अपूपान् भजति = आपूपिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[शाष्कुलिकः] शष्कुल 'गौरादिभ्यो मुख्यान्ङीः' (२।४।१९) ङी । शष्कुली: भजति = शाष्कुलिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[मौदकिकः] मोदकान् भजति = मौदकिकः । अनेन इकण्प्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[पायसिकः] पयः पायसं वा भजति = पायसिकः । अनेन इकणप्र० → इक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ।
[ दैवदत्तः] देवदत्तं भजति = दैवदत्तः । 'भजति' (६।३।२०४) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः ऐ।
[स्रौनः ] स्रुघ्ने भवः = स्रौघ्नः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[ हैमनः ] हेमन्ते भवः = हैमनः । 'हेमन्ताद् वा तलुक् च (६।३।९१) अण्प्र० → अ - तस्य लुक् च । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
: ॥ ६।३।२०७ ॥ [वादुसेवाऽर्जुनात्] वासुदेवश्च अर्जुनश्च = वासुदेवाऽर्जुनम्, तस्मात् । अय॑त्वाद् वासुदेवस्य पूर्वनिपातः । [अकः] अक प्रथमा सि । 'दोरीयः' (६।३।३२) - 'गोत्रक्षत्रियेभ्योऽकञ् प्रायः' (६।३।२०८) इत्यनयोरपवादः ।
[वासुदेवकः] वासुदेवं भजति = वासुदेवकः । अनेन अकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । यदा वासुदेवशब्दः संज्ञाशब्दोऽक्षत्रियवचनस्तदोत्तरेणाकञ् न प्राप्नोति, किन्तु 'दोरीयः (६।३।३२) इतीयः स्यात् इति तद्ग्रहणम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [295]