________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[औपगवः] उप-गो । उपगतो गौर्येन सः उपगुः । 'गोश्चान्ते'० (२।४।९६) ह्रस्वः । उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । ‘वृद्धिः स्वरे'० (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४७०) उकारस्य अव् ।
[माञ्जिष्ठम् ] मञ्जि 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्य-ष्ठिव-ष्वष्कः' (२।३।६८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० (१)/सूत्र(२९)) स्था । मञ्जौ तिष्ठति । 'स्था-पा-स्ना-त्रः कः'(५।१।१४२) कप्र० → अ । 'गो-ऽम्बा-ऽऽम्ब-सव्या-ऽप-द्वि-त्रि-भूम्यग्नि-शेकु-शङ्कु-क्वङ्ग-मजि-पुञ्जि-बर्हिः-परमे-दिवेः स्थस्य' (२।३।३०) षत्वम् । मञ्जिष्ठया रक्तं वस्त्रं = माञ्जिष्ठम् । 'तवर्गस्य श्चवर्ग'० (१।३।६०) थ० → ठ० । 'रागाट्टो रक्ते' (६।२।१) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) आलुक् ।
[भैक्षम् ] भिक्षा । भिक्षाणां समूहः = भैक्षम् । औत्सर्गिकाणो बाधकस्य, 'कवचि-हस्त्यचित्ताच्चेकण्' (६।२।१४) इतीकण्बाधको 'भिक्षाऽऽदेः' (६।२।१०) अण्प्र० । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
[आश्मः] अश्मन् । अश्मनो विकारः = आश्मः । 'विकारे' (६।२।३०) अण्प्र० → अ । 'वाऽश्मनो विकारे' (७४/६३) अन्त्यस्वरादिलोपः ।
[सौनः] स्रुघ्न । स्रुघ्ने भवः = स्रौघ्नः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः' (११३५३) विसर्गः ।
प्राग्जितोऽयं अधिकारः परिभाषा-विधिर्वा न्यायसूत्रम् ॥छ।।
धनादेः पत्युः ॥ ६।१।१४ ॥ [धनादेः] धनं आदिर्यस्य सः = धनादिः, तस्मात् ।
[ पत्युः] पति पञ्चमी ङसि । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) यत्वम् । 'रिव-ति-खी-तीय उर्' (१।४।३६) ङसिस्थाने उर् ।
[धानपतः] धनपति । धनपतेरपत्यं = धानपतः । अनेन विहितः 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । धनपतौ भवः = धानपतः । 'भवे' (६।३।१२३) अण्प्र० → अ । धनपतेरागतः । 'तत आगते' (६।३।१४९) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् ।
[आश्वपतः] अश्वपति । अश्वपतेरपत्यम् = आश्वपतः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । अश्वपतौ भवः । 'भवे' (६।३।१२३) अण्प्र० → अ । अश्वपतेरागतः । 'तत आगते' (६।३।१४९) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।
[ राष्ट्रपतम् ] राष्ट्रपति । राष्ट्रपतेरिदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे' ० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
[धान्यपतम् ] धान्यपति । धान्यपतेरिदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।