________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[दाक्षाः ] दक्ष । दक्षस्यापत्यं युवा = दाक्षिः । 'अत इञ्' (६।१।४२) इप्र० → इ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । दाक्षेरिमे च्छात्राः = दाक्षाः । 'वृद्धेञः' (६।३।२८) अप्र० । 'यूनि लुप्' (६।१।१३७) इञ्लुप् । प्रथमा जस्।
[पानागाराः] पन्न-अगार । पन्ध्र-पतितमगारं यस्य सः पन्नागारः । पन्नागारस्यापत्यं वृद्धम् । 'अत इब्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे'० (७४|१) वृ० आ । पान्नागारेरिमे च्छात्राः = पान्नागाराः । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । प्रथमा जस् ।
[हिशाकला:] व्रीहिभक्ष्यः शाकल्यः = व्रीहिशाकल्यः । व्रीहिशाकल्यस्य इमे च्छात्राः । 'शकलादेर्यञः' (६।३।२७) अप्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । प्रथमा जस् ।
[पैङ्गलकाण्वाः] पिङ्गलेन उपलक्षितः काण्व्यः = पिङ्गलकाण्व्यः । पिङ्गलकाण्व्यस्येमे च्छात्राः = पैङ्गलकाण्वाः । 'शकलादेर्यजः' (६।३।२७) अप्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा जस् ।
_ [कापिलदाक्षाः] कपिलेन उपलक्षितो दाक्षिः = कपिलदाक्षिः । कपिलदाक्षेरिमे च्छात्राः = कापिलदाक्षाः । 'वृद्धेञः' (६।३।२८) अप्र० → अ । 'वृद्धिः स्वरे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रथमा जस् ।
[१रपान्नागाराः] क्षीरभक्षः पान्नागारि(:) = क्षीरपान्नागारिः । क्षीरपान्नागारेरिमे च्छात्राः = क्षैरपान्नागाराः । 'वृद्धेञः (६।३।२८) अप्र० → अ । 'अवर्णेवर्णस्य' (७४/६८) इलोपः । 'वृद्धिः स्वरे'० (७४।१) वृ० ऐ। प्रथमा जस् ।
[कातीयाः] कत । कतस्याऽपत्यं वृद्धम् । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेफ्रिति तद्धिते' (७।४।१) वृ० आ । कात्यस्येमे च्छात्राः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा जस् ।
[जैह्वाकाताः] कात्यः पूर्ववत् । जिह्वाचपलः कात्यः = जिह्वाकात्यः । जिह्वाकात्यस्येमे च्छात्राः = जैहवाकाताः । अत्र ईयप्रत्ययो न भवति किन्तु 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा जस् ।
[हारितकाताः] हरित 'भक्षण अदने' (१७१७) भक्ष् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० । हरितं भक्षयतीति हरितभक्षः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिच्लुक् । हरितभक्षः कात्यः = हरितकात्य: । हरितकात्यस्येमे च्छात्राः = हारितकाताः । अत्र ईयप्रत्ययो न भवति किन्तु तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा जस् ॥छ।।
प्राग् जितादण् ॥ ६।१।१३ ॥ [प्राक् ] प्राक् प्रथमा सि । [जितात् ] जित पञ्चमी ङसि । [अण्] अण् प्रथमा सि ।