SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ षष्ठाध्यायस्य प्रथमः पादः ॥ [पाणिनीयाः] पणनं = पणः । 'पणेर्माने' (५।३।३२) अल्प्र० → अ । पणोऽस्यास्तीति । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पणिनोऽपत्यं वृद्धम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । पाणिनस्यापत्यं युवा = पाणिनिः । 'अत इज्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । पाणिनेरिमे च्छात्राः । 'वृद्धेञः' (६।३।२८) इति विषये 'यूनि लुप्' (६।१।१३७) इति युवार्थे इब्लुप् ततो 'दोरीयः' (६।३।३२) ईयप्र० । प्रथमा जस् । [जैमिनीयाः] चमू (३८०) - छमू (३८१) - जमू (३८२) - झमू (३८३) - 'जिमू अदने' (३८४) जिम् । जेमन्तीति । क्विप्प्र० । 'अप्रयोगीत्' (१।१।३७) क्विप्लुक् । अग्रे इन् । जेमामिनः = जेमिनः । जेमिनस्यापत्यं युवा = जैमिनिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जैमिनेरिमे च्छात्राः = जैमिनीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'यूनि लुप्' (६।१।१३७) इब्लुप् । प्रथमा जस् ।। - [रौढीयाः] 'रुहं जन्मनि' (९८८) रुह् । रुह्यते स्म । क्तप्र० → त । 'हो धुट्-पदान्ते' (२।१।८२) ह० → ढ० । 'अधश्चतुर्थात् तथोर्धः' (२।११७९) त० → ध० । 'तवर्गस्य श्चवर्ग'० (१।३।६०) ध० → ढ० । 'ढस्तड्ढे' (१।३।४२) ढलोपः - पूर्व उकारस्य दीर्घः । रूढस्यापत्यं = रौढिः । 'अत इञ्' (६।१।३१) इञ्प्र० → इ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । रौढेरिमे च्छात्राः = रौढीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'यूनि लुप्' (६।१।१३७) इञ्लुप् । [कम्बलचारायणीयाः] कम्बलप्रधानः चारायणः = कम्बलचारायणः । कम्बलचारायणस्येमे च्छात्राः = कम्बलचारायणीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । प्रथमा जस् । [ओदनपाणिनीयाः] ओदन पणनं = पणः । 'पणेर्माने' (५।३।३२) अल्प्र० → अ । पणोऽस्यास्तीति । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । पणिनोऽपत्यं वृद्धम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । पाणिनस्यापत्यं युवा । 'अत इञ्' (६।१।३१) इप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ओदनभक्ष्यः पाणिनिः-ओदनप्रधानो वा पाणिनिः । 'मयूरव्यंसकेत्यादयः' (३।१।११६) मध्यमपदलोपीसमासः । ओदनपाणिनेरिमे च्छात्राः = ओदनपाणिनीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । शेषं पूर्ववत् । [कडारजैमिनीयाः] कडारप्रधानो जैमिनिः = कडारजैमिनिः । कडारजैमिनेरिमे च्छात्राः = कडारजैमिनीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । शेषं पूर्ववत् । [घृतरौढीयाः] घृतभक्ष्यो रौढिः = घृतरौढिः । घृतरौढेरिमे च्छात्राः = घृतरौढीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । शेषं पूर्ववत् । प्रथमा जस् । [शाकलाः] शकल । शकलस्यापत्यं वृद्धं = शाकल्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शाकल्यस्येमे च्छात्राः = शाकलाः । 'शकलादेर्यः' (६।३।२७) अप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा जस् । [काण्वाः ] कण्व । कण्वस्यापत्यं वृद्धं = काण्व्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । काण्व्यस्येमे च्छात्राः = काण्वाः । 'शकलादेर्यञः' (६।३।२७) अप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा जस् ।
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy