________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[गोमयहूदीयाः] गोभिनिवृत्तम् । 'नृ--हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) मयट्प्र० → मय । गोमयस्य हृदः । गोमयश्चासौ हृदश्च । गोमयहूदे भवः । 'वाहीकेषु'० (६।३।३६) बाधकः 'क-खोपान्त्य-कन्था-पलद-नगर-ग्राम-हृदोत्तरपदाद् दोः' (६।३।५९) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
[ऐकचक्रकः] एक-चक्र । एकं चक्रं यत्र तत् = एकचक्रम् । एकचक्रे भवः = ऐकचक्रकः । 'रोपान्त्यात्' (६।३।४२) अकञ्प्र० → अक । 'वृद्धि: स्वरेष्वादेफिति'० (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
[क्रोडीयः] क्रोड । क्रोडं नाम प्राग्ग्रामस्तत्र भवः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।
[दैवदत्तिका, दैवदत्तिकी] देवदत्तं नाम प्राग्ग्रामस्तत्र भवा = दैवदत्तिका-दैवदत्तिकी । 'काश्यादेः' (६।३।३५) णिकप्र० → इक-इकण्प्र० → इक । 'वृद्धिः स्वरेष्वादेफिति'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलोपः । 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण्'० (२।४।२०) ङी ।।
ननु प्राचीति क्रियतां देशाधिकारे सति किं देशग्रहणेन ? इत्याह - तदनुवृत्तौ हि एवकारोऽप्यनुवर्तेत, तन्निवृत्त्यर्थं वचनमित्यर्थः ॥छ।
वाऽऽद्यात् ॥ ६।१।११ ॥ [वाऽऽद्यात् ] वाश्च आद्याच्च = वाऽऽद्यात् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
विकल्पाधिकार-आद्यात् इत्यधिकारो द्वयं वेदितव्यम्, नन्वत्र वक्ष्यमाणतद्धितप्रत्ययानां विकल्पनात् पक्षे वाक्यसमासौ दयेते तथा कथमपवादप्रत्ययानां विकल्पेन पक्षे नोत्सर्गप्रत्ययः ? इत्याह-उत्सर्गरूपस्तु तद्धितोऽपवादविषये 'पीलासाल्वा-मण्डूकाद्वा' (६।१।६८) इत्यादौ वाग्रहणान्न भवति । आद्यादिति विना तु अस्येति देवतार्थे इत्यपि स्यात् ।
[ऐन्द्रं हविः] इन्द्र । इन्द्रो देवताऽस्य । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धि: स्वरेष्वादेफिति'० (७।४।१) वृ० ऐ । सि-अम् । हविस् ।
[ऐन्द्रो मन्त्रः] इन्द्र । इन्द्रो देवताऽस्य । 'देवता' (६।२।१०१) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति'० (७।४।१) वृ० ऐ । प्रथमा सि । मन्त्रः ॥छ।।
___गोत्रोत्तरपदाद् गोत्रादिवाऽजिह्वाकात्य-हरितकात्यात् ॥ ६।१।१२ ॥ [गोत्रोत्तरपदात् ] गोत्रं च उत्तरपदं च = गोत्रोत्तरपदम्, तस्मात् । [गोत्रात् ] गोत्र पञ्चमी ङसि । [इव] इव प्रथमा सि ।
[अजिह्वाकात्यहरितकात्यात्] जिह्वाकात्यश्च हरितकात्यश्च = जिह्वाकात्यहरितकात्यम्, न जिह्वाकात्यहरितकात्यम् = अजिह्वाकात्यहरितकात्यम्, तस्मात् ।
[चारायणीयाः] चरस्यापत्यम् । 'नडादिभ्य आयनण्' (६।१।५३) आयनण्प्र० → आयन । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णवर्णस्य' (७।४।६८) अलोपः । चारायणस्येमे । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । प्रथमा जस् ।