________________
षष्ठाध्यायस्य प्रथमः पादः ॥
सेपुरं स्कोनगरं च वाहीकग्रामौ ।
[ दैववाचकं नन्द्यध्ययनम् ] देव 'वचं भाषणे' (१०९६) वच् । देवान् वक्तीति देववाचकः । बाहुलकाण्णकप्र० → अक । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । देववाचकेन कृतं प्रोक्तं वा = दैववाचकम् । 'कृते' (६।३।१९२) 'तेन प्रोक्ते' (६।३।१८१) वा अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । सि-अम् । नन्दिनो नन्देर्वा अध्ययनं = नन्द्यध्ययनम् । सि-अम् ।
[क्रौडः ] क्रोडं नाम उदग्ग्रामस्तत्र भवः = क्रौडः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
क्रोडशब्दः स्वाङ्गेऽपि वर्त्तते ।
[दैवदत्तः] देवदत्तं नाम वाहीकग्रामस्तत्र भवः = दैवदत्तः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् ।
देवदत्तशब्दः पुंस्यपि क्रियाशब्दश्च ।
उपचारात् सेपुरस्थे(स्थः) पुरुषोऽपि सेपुरस्तस्यापत्यम् । 'अवृद्धाद्'० (६।१।११०) आयनिञ् न च वक्तव्यं देशे एव न वर्त्तते इति मुख्याभिधेयापेक्षया देशे एव वर्त्तते इत्युक्तमन्यथा सर्वेऽपि शब्दा उपचारेण स्वार्थं त्यजन्त्येव ॥छ।।
प्राग्देशे ॥ ६।१।१० ॥
[प्राग्देशे] प्राचां देशः = प्राग्देशः । प्राङ् चासौ देशश्च = प्राग्देशः, तस्मिन् ।
शर । शरा अस्यां सन्ति = शरावती । 'नद्यां मतुः' (६।२।७२) मतुप्र० → मत् । 'मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मो वः' (२।१।९४) मस्य व० । 'अनजिरादिबहुस्वर-शरादीनां मतौ' (३।२।७८) दीर्घः । 'अधातूदृदितः' (२।४।२) ङी । कः पुनः प्राग्देशः ? यः शरावत्या सरित: पूर्वोत्तरेण वहन्त्याः पूर्वतो दक्षिणतो वा भवति स प्राग्देश: स्यात् । यस्तु पश्चिमत उत्तरतो वा स उदग्देशः ।
[एणीपचनीयः] एत । 'श्येतैत-हरित-भरत-रोहिताद् वर्णात् तो नश्च' (२।४।३६) ङी-तस्य नत्वं च । 'डुपचीं पाके' (८९२) पच् । एण्यः पच्यन्ते यत्र । 'अनट्' (५।३।१२४) अनटप्र० → अन । एणीपचने भवः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलोपः ।
[गोनर्दीयः] गो 'नर्द शब्दे'(३०२) नत् । गावो नर्दत्यस्मिन्निति गोनर्दः । 'व्यञ्जनाद् घञ्' (५।३।१३२) घञ्प्र० → अ । यद्वा नर्दन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । गां नर्दयतीति गोनर्दः । 'कर्मणोऽण्' (५।१।७२) अण्प्र० → अ । 'णेरनिटि' (४।३।८३) णिग्लोपः । गोनर्दे भवः = गोनर्दीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[भोजकटीयः] भोज अट (१९४) - पट (१९५) - इट (१९६) - किट (१९७) - 'कट गतौ' (१९८) कट । भोज-राजविशेष कटति = भोजकट: । 'लिहादिभ्यः' (५।१५०) अच्प्र० → अ । भोजकटे भवः = भोजकटीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।।
[कोशवृक्षीयः] कोश-वृक्ष । कोशप्रधाना वृक्षा यत्र । कोशहेतुभूता वृक्षा यत्र । कोशवृक्षे भवः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलोपः ।