________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[ऐतिकायनीयः] इत(ति)कस्यापत्यं वृद्धम् । 'नडादिभ्य आयनण्' (६।१।५३) आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० ऐ । ऐत(ति) कायनस्यापत्यं छात्रः इति कृते 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकप्र० न शिष्यवर्जनात्, ततो 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलोपः ।
_ [औपगवीयः] गौः(गोः) समीपम् = उपगुः । 'गोश्चान्ते'० (२।४।९६) हुस्वः । उपगोरपत्यम् । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । औपगवस्याऽयम् = औपगवीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[दात्ताः ] दत्तस्येमे = दात्ताः । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । प्रथमा सि । अत्र स्वरेषु हि आदौ अकारः स चात्रास्ति इति दुसंज्ञा स्यात् ।
शालीया इत्यादिषु तु आदिस्वरोऽकारो नास्ति किन्तु द्वितीय आकार इति न स्यात् । यस्येति संज्ञिनिर्देशार्थम् । अनेन यच्छब्देन हि स इत्याक्षिप्यते । स्वरेष्विति व्यञ्जनानपेक्षया वृद्धिनिःकृष्टस्वरसंनिवेशापेक्षमादित्वं यथा विज्ञायतेत्येवमर्थम् । तेन व्यञ्जनादेरपि दुसंज्ञा सिद्धा भवति ।
[साभासन्नयनः] सभा-सन्नयन । सभायाः सन्नयनं = सभासन्नयनम्, सभासन्नयने भवः = साभासन्नयनः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धि: स्वरे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलोपः । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते'० (१।३।५३) विसर्गः ॥छ।।
एदोद्देश एवेयादौ ॥ ६।१।९ ॥ [एदोत् ] एच्च ओच्च = एदोत् । प्रथमा सि । [ देशे ] देश सप्तमी ङि । [एव] एव प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । [ईयादौ ] ईय आदिर्यस्य सः = ईयादिः, तस्मिन् = ईयादौ । 'ईयः स्वसुश्च' (६।१।८९) - 'जातेरीयः सामान्यवति' (७।३।१३९) इत्यादेरीयस्य न ग्रहणं तेषु दुसंज्ञानिबन्धनकार्याभावात् ।
[सैपुरिका, सैपुरिकी] 'पिंग्ट बन्धने' (१२८७) षि । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सि । सिन्वन्तीति सयः । मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ए । 'अप्रयोगीत्' (१।१।३७) विचलोपः । से - पुर । सयां पुरं = सेपुरम् । सेपुरे भवा = सैपुरिका-सैपुरिकी । 'व्यादिभ्यो णिकेकणौ' (६।३।३४) इत्यधिकारे 'वाहीकेषु ग्रामात्' (६।३।३६) णिकप्र० → इक-इकण्प्र० → इक । 'वृद्धिः स्वरे'० (७।४।१) वृ० ऐ । 'अवर्णवर्णस्य' (७४।६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण्-नञ्-स्नञ्-टिताम्' (२।४।२०) ङी । 'अस्य डयां लुक्' (२।४।८६) अलुक् ।
[स्कौनगरिका, स्कौनगरिकी ] 'स्कुंग्श् आप्रवणे' (१५१४) स्कु । स्कुनन्तीति स्कवः । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) विच्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'अप्रयोगीत्' (१।१।३७) विच्लोपः । स्कवां नगरं = स्कोनगरम् । स्कोनगरे भवा = स्कौनगरिका-स्कौनगरिकी । 'वाहीकेषु ग्रामात्' (६।३।३६) णिकप्र० → इकइकण्प्र० → इक । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । 'अणजेयेकण्'० (२।४।२०) ङी । 'अस्य ङ्यां लुक्' (२।४।८६) अलुक् ।