________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[युष्मदीयम् ] युष्मद् । युष्माकं-युवयोर्वा इदं = युष्मदीयम् । व्यर्थवृत्तावपि स्यादावित्युक्ते, 'मन्तस्य युवाऽऽवौ द्वयोः' (२।१।१०) इति युवादेशो न । 'दोरीयः' (६।३।३२) ईयप्र० ।
[अस्मदीयम् ] अस्मद् । अस्माकं-आवयोर्वा इदम् = अस्मदीयम् । व्यर्थवृत्तावपि स्यादावित्युक्ते, 'मन्तस्य युवाऽऽवौ द्वयोः' (२।१।१०) इति आवादेशो न । 'दोरीयः' (६।३।३२) ईयप्र० ।
भवदन्यैर्नोदाहृत इत्यस्माभिरपि नोदाहृतः, प्रयोगस्तु भावतायनिः ।
[किमीयम् ] किम् । कस्येदं = किमीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । सर्वत्र सि-अम् । 'समानादमोऽतः' (१।४।४६) अलुक् ।
[त्यादायनिः] त्यस्यापत्यं = त्यादायनिः । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिप्र० → आयनि । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः (१।३।५३) विसर्गः ।
[यादायनिः] यद् । यस्यापत्यं = यादायनिः । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिप्र० → आयनि । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते'० (१।३।५३) विसर्गः ॥छ।
वृद्धिर्यस्य स्वरेष्वादिः ॥ ६।१८ ॥ [वृद्धिः ] वृद्धि प्रथमा सि ।
[यस्य] यद् । षष्ठी ङस् । 'आ द्वेरः' (२।१।४१) द० → अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलुक् । 'लोकात्' (१।१।३) य० । 'टा-ङसोरिन-स्यौ' (१।४।५) ङस्० → स्य० ।
[स्वरेषु ] स्वरश्च स्वरश्च = स्वरौ, स्वरौ च स्वराश्च = स्वरास्तेषु । 'स्यादावसंख्येयः' (३।१।११९) एकशेषः । [आदिः] आदि प्रथमा सि ।
[आम्रगुप्तायनिः] आम्र 'गुपौ रक्षणे' (३३२) गुप् । आनैर्गुप्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । आम्रगुप्तस्यापत्यम् = आम्रगुप्तायनि: । 'अवृद्धाद् दोनर्वा' (६।१।१०) आयनिप्र० → आयनि । 'वृद्धिः स्वरे'. (७४।१) वृ० आ ।
[शालगुप्तायनिः] शाल 'गुपौ रक्षणे' (३३२) गुप् । शालैर्गुप्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । शालगुप्तस्यापत्यं = शालगुप्तायनिः । 'अवृद्धाद् दोर्नवा' (६।१।११०) आयनिप्र० → आयनि । 'वृद्धिः स्वरे'० (७४/१) वृ० आ ।
[आम्बष्ठ्यः ] आम्ब 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्ष० (१)/सूत्र (२९)) स्था । आम्बे तिष्ठतीति । 'स्था-पा-स्ना-त्रः कः' (५।१।१४२) कप्र० → अ । 'इडेत्-पुसि'० (४।३।९४) आलुक् । 'गो-ऽम्बा-ऽऽम्ब-सव्या-ऽप-द्वि-त्रि-भूम्यग्नि-शेकु-शङ्कु-क्वङ्गमञ्जि-पुञ्जि-बहिः-परमे-दिवेः स्थस्य' (२।३।३०) षत्वम् । आम्बष्ठानां राष्ट्रस्य राजा, आम्बष्ठस्य राज्ञोऽपत्यं वा । 'दुनादि-कुवित्-कोशला-ऽजादाभ्यः ' (६।१।११८) ज्यप्र० → य । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः ।
[शालीयः] शाला । शालायां भवो जातो वा = शालीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) आलुक् ।
[मालीयः] माला । मालायां भवो जातो वा = मालीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।