________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
कुत्साया अन्यत्र- [गाायणः] गार्ग्यस्यापत्यं युवा । 'यजिञः' (६।१।५४) आयनप्र० → आयन । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[गाायणः, गार्यो वा ] गर्गस्यापत्यं वृद्धचितं तत्रभवान् । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे'० (७४।१) वृ० आ । गाय॑स्यापत्यं युवा । 'यजिञः' (६।१।५४) आयनणप्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । विकल्पेन वृद्धस्य युवा ।
अर्चाया अन्यत्र-[गार्ग्यः] गर्गस्यापत्यं युवापत्यं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[गार्गी ] गर्गस्यापत्यं पौत्रादि स्त्री = गार्गी । 'गर्गादेर्यन्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'यत्रो डायन् च वा' (२।४।६७) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् ॥छ।।
संज्ञा दुर्वा || ६।१।६ ॥ [संज्ञा] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा, सम्पूर्व० । संज्ञायतेऽनया इति संज्ञा । 'स्थादिभ्यः कः' (५।३।८२) कप्र० → अ । यद्वा संज्ञानं = संज्ञा । 'उपसर्गादातः' (५।३।११०) अप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । कान्तस्य बाहुलकात् स्त्रीत्वं आप् ।
[दुः] दु प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । हठात् संज्ञा-स्वेच्छा संज्ञा इत्यर्थः ।
[देवदत्तीयाः, दैवदत्ताः] देवदत्त । देवदत्तस्येमे = देवदत्तीयाः । 'दोरीयः' (६।३।३२) ईयप्र० । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे'० (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् ।
[सिद्धसेनीयाः, सैद्धसेनाः] सिद्धसेनदिवाकरस्येमे । 'दोरीयः' (६।३।३२) ईयप्र० । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । शेषं पूर्ववत् ॥छ।।
त्यदादिः ॥ ६१७ ॥ [त्यदादिः ] त्यद् आदिर्यस्य सः = त्यदादिः । [त्यदीयम् ] त्यद् । त्यस्येदं = त्यदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । [ तदीयम् ] तद् । तस्येदं = तदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । [यदीयम् ] यद् । यस्येदं = यदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । [इदमीयम् ] इदम् । अस्येदं = इदमीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । [अदसीयम् ] अदस् । अमुष्येदं = अदसीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । [ एतदीयम् ] एतद् । एतस्येदं = एतदीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । [एकीयम् ] एक । एकस्येदं = एकीयम् । 'दोरीय:' (६।३।३२) ईयप्र० । 'अवर्णवर्णस्य' (७।४।६८) अलुक् । [ द्वीयम् ] द्वि । द्वयोरिदं = द्वीयम् । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् ।