________________
षष्ठाध्यायस्य प्रथमः पादः ।।
[अन्यस्मिन् जीवति गार्ग्यः] अन्यस्मिन्-उपाध्यायादौ जीवति, गार्ग्यस्यापत्यं = गार्ग्यः । प्रत्ययो नागच्छति । [कनीयसि भ्रातरि गार्ग्यः] कनीयसि भ्रातरि, गार्ग्यस्यापत्यं = गार्ग्यः । प्रत्ययो न ।
[गार्गी ] गार्य-स्त्री चेत् गार्गी । 'यत्रो डायन् च वा' (२४/६७) ङीप्र० । 'अस्य ड्यां लुक्' (२।४।८६) अलुक् । 'व्यञ्जनात् तद्धितस्य' (२।४।८८) यलुक् ॥छ।।
सपिण्डे वयः-स्थानाधिके जीवद्वा ॥ ६।१।४ ।। [सपिण्डे ] समानः पिण्डः सप्तमः पुरुषो यस्याऽसौ सपिण्डः, तस्मिन् । 'समानस्य०' (३।२।१४९) समान० → स० ।
[वयःस्थानाधिके ] वयश्च स्थानं च = वयःस्थाने, वयःस्थानाभ्यामधिकं = वयःस्थानाधिकम्, तस्मिन् । [ जीवत् ] जीवत् प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । [वा] वा प्रथमा सि ।
ययोरेकः पूर्वः सप्तमः पुरुषस्तावन्योऽन्यस्य सपिण्डौ, वयो यौवनादि, स्थानं पिता पुत्र इत्यादि, न वाच्यं पितृव्ये वाच्ये वंश्यद्वारे पूर्वेणैव भविष्यति, पितृव्यस्य वंश्यताया अभावात्, पित्रादिरात्मनः कारणमिति ह्युक्तम् ।।
[गार्ग्यः, गाायणो वा] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादेमिति तद्धिते' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः । जीवत् गाय॑स्यापत्यं = गाायणःगार्यो वा । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[वात्स्यः, वात्स्यायनो वा] वात्स्यः पूर्ववत् । जीवत् वात्स्यस्यापत्यं = वात्स्यः-वात्स्यायनो वा । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[अन्यत्र गार्ग्यः] अन्यत्र-मातुलादौ, जीवत् गर्गस्यापत्यं = गार्ग्यः । प्रत्ययोऽत्र न ।
[द्वाभ्यामन्यतरेण वा न्यूने गार्ग्यः] लघौ पितृव्यजे द्वाभ्यां वयः-स्थानाभ्यां न्यूनत्वं लघौ पितृव्ये जीवत्यन्यतरेण न्यूनत्वं जीवन् तत्र गाय॑स्यापत्यं = गार्ग्यः । प्रत्ययो न ।
[पौत्रो गार्ग्यः] गर्गस्यापत्यमनन्तरमपि वृद्धत्वोपचारात् गार्ग्यः । 'गर्गादेर्यज्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । तस्यापत्यं युवेति कृते गाायण इति प्राप्नोति, तन्न भवति । [स्त्री गार्गी ] गार्गी पूर्ववत् ॥छ।।
युव-वृद्धं कुत्साऽचे वा ।। ६२५ ॥ [ युववृद्धम् ] युवा च वृद्धं च = युववृद्धम् । [कुत्साऽर्चे] कुत्सा च अर्चा च = कुत्साऽर्चम्, तस्मिन् । 'क्लीबे' (२।४।९७) इस्वत्वम् । [वा] वा प्रथमा सि । 'वंश्य-ज्यायो'० (६।१।३) इत्यनेन नित्यं प्राप्तमनेन पक्षे निवार्यते ।
[गार्ग्यः, गाायणो वा जाल्मः ] गार्ग्यः पूर्ववत् । गार्ग्यस्यापत्यं युवा कुत्सितो गार्ग्यः, गाायणः । 'यजिञः' (६।१।५४) आयनणप्र० → आयन । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । जाल्म प्रथमा सि । गुर्वायत्तो भूत्वा स्वतन्त्रो यः स एवमुच्यते ।