________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[गार्ग्यः] गर्ग । गर्गस्याऽपत्यं पौत्रादि वृद्धं = गार्ग्यः । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[वात्स्यः ] वत्स । वत्सस्याऽपत्यं युवा = वात्स्यः । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः' (१२३५३) विसर्गः ।।
[गार्गिः] गर्गस्याऽपत्यमनन्तरं = गार्गिः ।
[वात्सिः ] वत्सस्याऽपत्यमनन्तरं = वात्स्य:(त्सिः) । अत इञो बाधक इति 'ऋषि वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्राप्नोति तद्बाधनाय 'बाह्वादिभ्यो गोत्रे' (६।१।३२) इञ्प्र० → इ। 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ। 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते'० (१।३।५३) विसर्गः ।
पोत्रस्याऽपत्यत्वादाद्यपत्यमेव विज्ञायते न तु भ्रात्रादि ॥छ।।
वंश्य-ज्यायोभ्रात्रोर्जीवति प्रपौत्राद्यस्त्री युवा ॥ ६१३ ॥
[वंश्यज्यायोभ्रात्रोः] वंशे भवः = वंश्यः । 'दिगादिदेहांशाद् यः' (६।३।१२४) यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । द्वयोर्मध्ये प्रकृष्टो वृद्धः = ज्यायान् । 'गुणाङ्गाद् वेष्ठेयसू' (७।३।९) ईयसुप्र० → ईयस् । 'वृद्धस्य च ज्यः' (७।४।३५) वृद्ध० → “ज्य" आदेशः - ईकारस्य आ । 'समानानां तेन दीर्घः' (१।२।१) दीर्घः । ज्यायांश्चासौ भ्राता च = ज्यायोभ्राता । वंश्यश्च ज्यायोभ्राता च = वंश्यज्यायोभ्रातरौ, तयोः = वंश्यज्यायोभ्रात्रोः । सप्तमी ओस् ।
[जीवति ] जीवतीति जीवन्, तस्मिन् । 'शत्रानशावेष्यति तु सस्यौ' (५।२।२०) शतृप्र० → अत् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । सप्तमी ङि ।
[प्रपौत्रादि] प्रपन्नः पौत्रं जनकत्वेन - प्रपौत्र आदिर्यस्य तत् ।
[अस्त्री] न स्त्री = अस्त्री । 'नञत्' (३।२।१२५) न० → अ० । प्रथमा सि । 'दीर्घङ्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलुक् ।
[युवा] युवन् प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । 'दीर्घड्याब्-व्यञ्जनात् से:' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् ।
वंशे भवः = वंश्यः, पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता वयोऽधिक एकपितृक एकमातृको वा । प्रपौत्रः पोत्रापत्यं परमप्रकृतेश्चतुर्थः । जीवतीति वचनभेदः पृथग्निमित्तत्वद्योतनार्थः, तेन एकस्मिन्नपि जीवति प्रत्ययो भवतीत्यर्थः ।
[गाायणः ] गार्ग्य । गार्ग्यस्याऽपत्यं युवा = गाायणः । 'यजिजः' (६।१।५४) इत्यायनणप्र० → आयन । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'र-वर्णान्नो ण एकपदेऽनन्त्यस्या-ऽलच-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० → ण । प्रथमा सि । 'सो रुः' (२११७२) स० → र० । 'रः पदान्ते'. (१।३।५३) विसर्गः ।
[वात्स्यायनः ] वात्स्य । वात्स्यस्याऽपत्यं युवा = वात्स्यायनः । 'यजिञः' (६।१।५४) आयनण्प्र० → आयन । 'वृद्धिः स्वरेष्वादे'० (७४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । 'र: पदान्ते'० (१।३।५३) विसर्गः ।