________________
॥ अर्हम् ॥
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितं
श्रीसिद्धहेमचन्द्रशब्दानुशासनम् ॥ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ॥
॥ अथ षष्ठाध्यायस्य प्रथमः पादः ॥
तद्धितोऽणादिः ॥ ६।१।१ ॥
[तद्धितः] तस्मै = लौकिक - वैदिकशब्दसंदर्भाय हितः । ताभ्यः प्रकृति-वृत्तिभ्यो हितः = तद्धितः । आद्यं मतं जैनेन्द्रस्य, द्वितीयमुत्पलस्य । “हितादिभिः' (३।१।७१) इति समासः ।
[अणादिः] अण् आदिर्यस्याऽसौ अणादिः ।
[औपगवः ] उप-गो । उपगतो गौर्येन सः = उपगुः । 'गोश्चान्ते इस्वोऽनंशिसमासेयोबहुव्रीहौ' (२।४।९६) इस्वत्वम् । उपगोरपत्यम् = औपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७।४।७०) उकारस्य अव् सर्वत्र ।
[कापटवः] कपटु । केन शिरसा ब्रह्मणा आत्मना वा खेन वा पटुः = कपटुः । कपटोरपत्यं = कापटवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ॥छ।।
पौत्रादि वृद्धम् ॥ ६।१।२ ॥ [पौत्रादि] पुत्रस्याऽपत्यमनन्तरं = पौत्रः । 'पुनर्भू-पुत्र-दुहितृ-ननान्दुरनन्तरेऽज्' (६।१।३९) अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति' ० (७।४।१) वृ० पौ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पौत्र आदिर्यस्य तत् = पौत्रादि । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् ।
[वृद्धम् ] 'वृधूङ् वृद्धौ' (९५७) वृध् । वर्धते स्म = वृद्धम् । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'अधश्चतुर्थात् तथोर्धः' (३।११७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० । सि-अम् । 'समानादमोऽतः' (१।४।४६) अलोपः ।
अपत्यवत इति विशेष्यम्, परमप्रकृति(ते)रिति विशेषणम्, अन्यथा स्त्रीत्वम् ।