________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[प्राणपतम् ] प्राणपति । प्राणपतेरिदम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।।
[गार्हपत्यम् ] गृहपति । गृहपतेरिदं = गार्हपत्यम् । मतान्तरे 'अनिदम्यणपवादे च दित्यदित्यादित्ययमपत्युत्तरपदाच्यः ' (६।१।१५) ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
[सैनापत्यम् ] सेनापति । सेनापतेरिदं सैनापत्यम् । 'अनिदम्यणपवादे'० (६।१।१५) ञ्यप्र० → य । 'वृद्धिः स्वरे'० (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् । ___ पत्युत्तरपदलक्षणस्य ज्यस्य राष्ट्रादिषु त्रिषु शब्देषु 'दोरीयः' (६।३।३२) इतीयस्य चापवादोऽयम् ॥छ।
अनिदम्यणपवादे च दित्यदित्यादित्य-यमपत्युत्तरपदाभ्यः ॥ ६।१।१५ ॥ [अनिदमि ] न इदम् = अनिदम् । 'अन् स्वरे' (३।२।१२९) अन्, तस्मिन् । [अणपवादे] अणोऽपवादः = अणपवादस्तस्मिन् । [च] च प्रथमा सि ।
[दित्यदित्यादित्ययमपत्युत्तरपदात् ] पतिः उत्तरपदं यस्य सः = पत्युत्तरपदः । दितिश्च अदितिश्च आदित्यश्च यमपत्युत्तरपदश्च = दित्यदित्यादित्ययमपत्युत्तरपदम्, तस्मात् ।।
[ज्यः] ज्य प्रथमा सि ।
[दैत्यः] दिति । दितेरपत्यं = दैत्यः । अनेन ञ्यप्र० → य । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० ऐ। 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा सि ।
[आदित्यः] अदिति । अदितेरपत्यमादित्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । प्रथमा सि ।
[दैत्यम् ] दितिर्देवताऽस्य = दैत्यम् । अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७४/६८) इलोपः । सि-अम् ।
[आदित्यम् ] अदितिर्देवताऽस्य = आदित्यम् । अनेन त्र्यप्र० → य । 'वृद्धिः स्वरेष्वादेफिति०' (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । सि-अम् ।
[आदित्य्यम् ] अदितेरपत्यम् । आदित्यो देवताऽस्य । ज्यः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलोपः । 'ततोऽस्याः ' (१।३।३४) द्वित्वम् । अथवा अदितिर्देवताऽस्य । ज्यः । आदित्यो देवताऽस्य । ज्य: । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् तदा यस्य लुप् न भवति अनपत्यत्वात् । सि-अम् ।
[याम्यम् ] यमस्याऽपत्यं याम्यम् । अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृ० आ ।
[बार्हस्पत्यः] बृहत्-पति । बृहतां पतिः । 'वर्चस्कादिष्ववस्करादयः' (३।४।४८) तस्य स० । बृहस्पतेरपत्यं = बार्हस्पत्यः । अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादे'० (७।४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७।४।६८) इलोपः । सि-अम् ।
[बार्हस्पत्यम् ] बृहस्पतिर्देवताऽस्य = बार्हस्पत्यम् । अनेन ज्यप्र० → य । 'वृद्धिः स्वरेष्वादेफिति'० (७४।१) वृ० आर् । 'अवर्णेवर्णस्य' (७/४/६८) इलोपः । सि-अम् ।