________________
२८६
[ दामकण्ठ ] दाम कण्ठे यस्य स ।
[ कठशाठ ] कठं शठति = कठशाठः । ‘कर्मणोऽण्' (५।१।७२ ) अण्प्र० अ । 'ञ्णिति' (४|३|५०) उपान्त्यवृद्धिः।
[ कुशायन] कुत्सितं शयनमस्य सः =
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां ।
कुश (शा) यन: । बाहुलकाद्दीर्घः ।
[ आश्वपञ्चम ] अश्वपञ्चमस्यापत्यम् = आश्वपञ्चम । 'ऋषि - वृष्ण्यन्धक० ' ( ६ १ ६१) अण्प्र० अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् ।
[ परुषांसक ] परुषो अंशो (सो) यस्य सः परुषांसः परुषांस एव । =
=
परुषांसकः । स्वार्थे कप्प्र०
[ आरुणि] अरुणस्यापत्यम् = आरुणि । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ 'अवर्णेवर्णस्य' (७४६८) अलुक् ।
[ खादायन] खादस्येव अयनमस्य सः = खादायनः ।
[ भाल्लविनः ] भल्लव मण्ड्यते भल्लवस्यापत्यं भाल्लवि: । 'अत इब्' (६।१।३१) इञ्प्र०३ वृद्धिः । = । स्वरेष्वादेर्ज्जिति०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४|६८) अलुक् भाल्लविना प्रोक्तं वेदं विदन्त्यधीयते भाल्लविनः । अनेन णिन्प्र०इन् । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । प्रथमा जस् ।
वा =
।
[ शाट्यायनिन: ] शटतीति शाट्यः । ऋवर्ण व्यञ्जनाद् घ्यण्' (५ | १|१७) घ्यण्प्र० व 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः । शाट्यस्यापत्यं = शाट्यायनि(:) । 'तिकादेरायनिञ्' (६।१।१०७) आयनिञ्प्र० आयनि । द्वा शब्द(ट)स्यापत्यं वृद्धं = शाट्यः । ‘गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । शाट्यस्यापत्यं = शाट्यायनः । ' यञिञः' (६।१।५४) आयनण्प्र० आयन । वृद्धिः । 'अवर्णैवर्णस्य' (७७४२६८) अलुक् । शाट्यायनिना शाट्यायनेन वा प्रोक्तं वेदं विदन्त्यधीयते वा = शाट्यायनिनः । अनेन णिन्प्र० इन् । 'अवर्णेवर्णस्य' (७|४|६८) इ- अलुक् । प्रथमा जस् ।
=
क
[ ऐतरेविणः ] इतरस्यापत्यम् ऐतरेयः शुभ्रादिभ्यः' (६।१।७३) एवण्प्र० एय वृद्धिः स्वरे०' (७७४१) वृद्धिः ऐ। 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । ऐतरेयेण प्रोक्तं वेदं विदन्त्यधीयते वा ऐतरेविणः । अनेन णिन्प्र० इन् । 'अवर्णेवर्णस्य' (७४६८) अलुक् प्रथमा जस् ।
:
।
ब्राह्मणमपि वेद एव । मन्त्रब्राह्मणं हि वेदः । कोऽर्थः ? अयमर्थ:- मन्त्रश्च ब्राह्मणश्च तयोः समुदायो वेद उक्तमिदम् ॥छ||
पुराणे कल्पे || ६ | ३|१८७ ॥
[पुराणे ] पुराण सप्तमी ङि ।
[कल्ये ] 'कृपौ सामर्थ्यं' (९५९) कृष् कल्पन्ते व्यवहारा अनेन कल्पः । 'अच्' (५१११४९) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर्। 'ऋ-र लृ लं कृपोऽकृपीटादिषु' (२३९९) २० ल० तस्मिन् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013) [286]
=
[ पैङ्गी कल्पः ] पिङ्ग पिङ्गेन प्रोक्तः कल्पः पुराणः पैङ्गी । अनेन णिन्प्र० इन् । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्- हन्- पूषाऽर्यम्ण: शिस्यो:' (१।४।८७) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनहन: ' (२२११९१) नलुक् । कल्पः ।