________________
षष्ठाध्यायस्य तृतीयः पादः ॥
[ आरुणपराजी कल्पः ] अरुण 'पां पाने' (२) पा । अरुणं पाति (पिबति) = अरुणपः म:' (५|१|७६) प्र० अ डित्यन्त्यस्वरादेः' (२|१|११४) आलुक् । अरुणपस्य राजा सखे:' (७|३|१०६) अट्समासान्तः अ । 'नोऽपदस्य०' (७|४|६१) अन्लुक् । अरुणपराजेन प्रोक्तः कल्पः पुराणः आरुणपराजी । अनेन णिन्प्र० → इन् । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा सि । 'इन्-हन्०' (१९४१८७) दीर्घः। दीर्घङ्याब्०' (१।४।४५) सिलुक्। 'नाम्नो नोऽनह्नः' (२२११९१) नलुक् ।
=
२८७
'आतो डोऽहवा वाअरुणपराजा राजन्
[ पैङ्गिनः ] पैङ्गिन् मण्ड्यते । येऽपि पैङ्गिनं कल्पं विदन्त्यधीयते वा तेऽपि = पैङ्गिनः । अनेन पुनरेव णिन्प्र० । 'प्रोक्तात्' (६।२।१२९) इन्लुप् । प्रथमा जस् ।
[ आरुणपराजिनः ] ये आरुणपराजिनं कल्पं विदन्त्यधीयते वा उपचारात् तेऽपि = आरुणपराजिनः । अनेन पुनरेव णिन्प्र० । 'प्रोक्तप्रत्' (६।२।१२९) इन्लुप् प्रथमा जस्
।
[ आश्मरथः कल्पः ] अश्मरथस्यापत्यं वृद्धम् = आश्मरथ्यम् । 'गर्गादियंञ्' (६।११४२) यञ्प्र०य वृद्धिः स्वरे०' (७७४१) वृद्धिः आ 'अवर्णेवर्णस्य' (७१४/६८) अलुक् आश्मरथे ( थ्ये) न प्रोक्तः कल्पः = आश्मरथः । 'शकलादेर्यत्र:' (६।३।२७) अञ्प्र० अ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा सि । 'सो रु: ' (२।१।७२ ) स०र० ॥छ ।
काश्यप कौशिकाद् वेदवच्च ।। ६।३।१८८ ॥
[ काश्यपकौशिकात् ] काश्यपश्च कौशिकश्च = काश्यपकौशिकम्, तस्मात् ।
[ वेदवत् ] वेद इव = वेदवत् । 'स्यादेरिवे' (७/१/५२) वत्प्र० । प्रथमा सि । 'अव्ययस्य' ( ३।२।७) सिलुप् । [च] च प्रथमा सि ।
'दोरीयः' (६।३।३२) इत्यस्यापवादः ।
[ काश्यपिनः ] कश्य 'पांक रक्षणे' (१०६७) पा कश्यं पातीति कश्यपः 'आतो डोऽहवा० (५११७६) डप्र० → अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'डित्यन्त्य० ' (२|१|११४) आलुक् । काश्यपेन प्रोक्तं पुराणं कल्पं विदन्त्यधीयते वा काश्यपिनः । अनेन णिन्प्रइन् । 'अवर्णेवर्णस्य' (७२४६८) अलुक् प्रथमा जस् । । ।
=
[ कौशिकिनः ] कुत्सि (शि) कस्यापत्यं वृद्धं = कौशिकः । 'विदादेर्वृद्धे' (६।१।४१) अञ्प्र० अ । 'वृद्धिः स्वरे०' (७|४|१) वृद्धिः औ । 'अवर्णवर्णस्य' (७|४|६८) अलुक् । कौशिकेन प्रोक्तं पुराणं कल्पं विदन्त्यधीयते वा = कौशिकिनः । अनेन णिन्प्र०इन् । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्रथमा जस् ।
[ काश्यपकः ] काश्यपिन् । काश्यपिनां धर्म: - आम्नाय :- सङ्घो वा = काश्यपकः । ' वेदेन्ब्राह्मणमत्रैव ( ६ २ १३० ) इत्यस्य प्राप्तौ 'चरणादकञ्' (६।३।१६८) अकञ्प्र० अक 'नोऽपदस्य० (७/४/६१) इलुक् । प्रथमा सि । 'सो रु: ' (२१/७२ ) स०र० ।
=
[ कौशिककः ] कौशिकिन मण्ड्यते । कौशिकिनां धर्मः आम्नायः सङ्घो वा कौशिककः । 'वेदेन्ब्राह्मणमत्रैव' (६२।१३०) इत्यस्य प्राप्तौ चरणादकञ्' (६।३।१६८) अकञ्प्र० अक 'नोऽपदस्य०' (७|४|६१ ) इन्लुकू । प्रथमा सि 'सो रु' (२११७२) स० ०
[ काश्यपीया संहिता ] काश्यपेन प्रोक्ता = काश्यपीया । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७|४|६८)
अलुक् ।
[ काश्यपीयः ] इदानींतनेन गोत्रकाश्यपेन प्रोक्तः कल्पः = काश्यपीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक् अत्र गोत्रेण नाम्ना काश्यपो न त्वादिभूत इति शेषः ॥ छ ॥
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [287]