________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२८५
[छागलेयिनः] छगलोऽस्यास्ति = छगली । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । छगलिना प्रोक्तं वेदं विदन्त्यधीयते वा = छागलेयिनः । अनेन णेयिन्प्र० → एयिन् । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'नोऽपदस्य तद्धिते' (७४।६१) इन्लुक् प्रथमा जस् ॥छ।।
शौनकादिभ्यो णिन् ॥ ६।३।१८६ ॥ [शौनकादिभ्यः] शौनक आदिर्येषां ते = शौनकादयः, तेभ्यः । [णिन् ] णिन् प्रथमा सि । 'तेन प्रोक्ते' (६।३।१८१) इत्यस्यापवादः ।
[शौनकिनः ] शुनकस्यापत्यं = शौनकः । जुन (१३७३) 'शुनत् गतौ' (१३७४) शुन् । शुनति परमां काष्ठां कीचकाः । 'नाम्युपान्त्य०' (५।१।५४) कप्र० → अ । शुन एव = शुनकः । स्वार्थे कप्र० । 'विदादेर्वृद्धे (६।१।४१) अप्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । शौनकेन प्रोक्तं वेदं विदन्त्यधीयते वा = शौनकिनः । अनेन णिन्प्र० → इन् । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् ।
[शाङ्करविणः] शम् 'गश निगरणे' (शब्द) (१५३८) ग । शं - सुखं गृणाति = शङ्गरुः । 'भ-म-त०' (उणा०७१६) बहुवचनात् उप्र० । 'नामिनो गुणोऽक्ङिति (४।३।१) गु० अर् । शङ्गरोरपत्यं = शाङ्गरवः । 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० → अ । वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । शाङ्गरवेण प्रोक्तं वेदं विदन्त्यधीयते वा = शाङ्गरविणः । अनेन णिन्प्र० → इन् । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा जस् ।
[वाजसनेयिनः] वाजसनाया अपत्यं = वाजसनेयः । 'झ्याप्त्यूडः' (६।१।७०) एयणप्र० → एय० । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । वाजसनेयेन प्रोक्तं वेदं विदन्त्यधीयते वा = वाजसनेयिनः । अनेन णिन्प्र० → इन् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् ।
[शौनकीया शिक्षा] शौनकेन प्रोक्ता = शौनकीया । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । 'आत्' (२।४।१८) आप्प्र० → आ । शिक्षा । __ [वाजसनेय] संज्ञानं(समानं) नेयम् । 'समानस्य धर्मादिषु' (३।२।१४९) समानस्य सभावः = सनेयम् । वाजं यज्ञोऽत्र सनेयमस्य = वाजसनेयम् ।
[शापेय ] 'शपी आक्रोशे' (९१६) शप् । शपति आक्रोशति । 'आत्' (२।४।१८) आप्प्र० → आ । शपाया अपत्यं = शापेयः । 'ङ्याप्त्यूडः' (६।१७०) एयणप्र० → एय । 'वृद्धिः स्वरेष्वादेफ्रिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[शाफेय] 'शोंच तक्षणे' (११४७) शो । 'आत् सन्ध्यक्षरस्य' (४।२।१) शा । 'शफ-कफ-शिफा-शोफादयः' (उणा० ३१६) शफनिपातः । 'आत्' (२।४।१८) आप्प्र० → आ । शफाया अपत्यं = शाफेयः । 'ङ्याप्त्यूडः' (६।१।७०) एयणप्र० → एय । 'अवर्णेवर्णस्य' (७/४/६८) आलुक् ।
[शा पेय] 'शसू हिंसायाम्' (५४९) शस् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) शंस् । शंसतीति शस् । क्विप्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । शसं फणति = शस्फः । 'क्वचित्' (५।१।१७१) डप्र० →
अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अण्लोपः । 'सो रुः' (२।१।७२) स० → र० । 'र: कख-पफयो:०' । (१।३।५)(पदेशः । 'आत्' (२।४।१८) आप्प्र० → आ । श)(पस्या अपत्यं = शा)(पेयः । 'झ्याप्त्यूडः' (६।१७०) एयणप्र० → एय ॥ 'अवर्णेवर्णस्य' (७।४।६८) आलुक् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [285]