________________
२८४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[गोगडाः] गोरिव क(ग)डोऽस्य सः गौ(गो)गडः । गौ(गो)गडेन प्रोक्तं वेदं विदन्त्यधीयते वा = गोगडाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७)वा अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । अनेन अण्लुप् । सर्वत्र प्रथमा जस् ।।
[चारकाः श्लोकाः] चरकेण प्रोक्ताः = चारकाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् । श्लोकाः ।।
[चरको वैशम्पायनः] चरकोऽत्र वैशम्पायनः कृष्णद्वैपायनशिष्यः । विशम्पस्यापत्यं = वैशम्पायनः । 'अश्वादेः' (६।११४९) आयनप्र० → आयन । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
तित्तिरि-वरतन्तु-खण्डिकोखादीयण् ।। ६।३।१८४ ॥ [तित्तिरिवरतन्तुखण्डिकोखात्] तित्तिरिश्च वरतन्तुश्च खण्डिकश्च उखश्च = तित्तिरिवरतन्तुखण्डिकोखम्, तस्मात् ।
[ईयण] ईयण् प्रथमा सि ।
[तैत्तिरीयाः] तित्तिरिणा प्रोक्तं वेदं विदन्त्यधीयते वा = तैत्तिरीयाः । अनेन ईयणप्र० → ईय । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । प्रथमा जस् ।
[वारतन्तवीयाः] वरास्तन्तवो यज्ञोपवीतलक्षणाः । यद्वा वर 'तनूयी विस्तारे' (१४९९) तन् । वरं तनोति = वरतन्तुः । 'कृ-सि-कम्यमि-गमि तनि० (उणा० ७७३) तुन्प्र० → तु । 'म्नां धुड्वर्गेऽन्त्यो०' (१।३।३९) न० → न० । वरतन्तुना प्रोक्तं वेदं विदन्त्यधीयते वा = वारतन्तवीयाः । अनेन ईयणप्र० → ईय । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । प्रथमा जस् ।
[खाण्डिकीयाः] खण्डा अस्य सन्ति = खण्डिकाः । 'नावादेरिकः' (७।२।३) इकप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । खण्डिकैः प्रोक्तं वेदं विदन्त्यधीयते वा = खाण्डिकीयाः । अनेन ईयणप्र० → ईय । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा जस् ।
[औखीयाः] उखेन प्रोक्तं वेदं विदन्त्यधीयते वा = औखीयाः । अनेन ईयणप्र० → ईय । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अवर्णस्य लुक् । प्रथमा जस् ।
[तैत्तिराः श्लोकाः] तित्तिरिणा प्रोक्ताः = तैत्तिराः । 'तेन प्रोक्ते (६।३।१८१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । प्रथमा जस् । श्लोकाः । अत्रापि 'वेदेन्ब्राह्मणमत्रैव' (६।२।१३०) इत्युपतिष्ठते ॥छ।।
छगलिनो णेयिन् ॥ ६।३।१८५ ॥
[छगलिनः] छगलिन् पञ्चमी ङसि । [णेयिन् ] यिन् प्रथमा सि ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[284]