________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२८३
मौदादिभ्यः ॥ ६३।१८२ ॥ [ मौदादिभ्यः] मौद आदिर्येषां ते = मौदादयः, तेभ्यः ।
[मौदाः] 'मुदि हर्षे' (७२६) मुद् । मोदते = मोदः । 'नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः' (५।१।५४) कप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । यद्वा 'मुदण् हर्षे(संसर्गे)' (१७४३) मुद् । 'चुरादिभ्यो णिच्' (३।४।१७) णिचप्र० → इ । मोदयतीति मुदः । 'अच्' (५।१४९) अच्प्र० → अ । 'णेरनिटि' (६।३।८३) णिच्लुक् । मुदस्य मोदस्य वा अपत्यं = मौदः । 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० → अ । 'वृद्धि स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा = मौदाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयस्याणो लुप् । 'कठादिभ्यो वेदे लुप्' (६।३।१८३) प्रथमस्याणो लुप् । यद्वा मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा । 'तेन प्रोक्ते' (६।३।१८१) - 'तद् वेत्त्यधीते' (६।२।११७) वा इत्यनयोः प्राप्तौ अनेन अण्प्र० । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । प्रथमा जस् । एवमग्रेपि ज्ञेयम् ।। ___ [पैष्पलादाः ] पिष्पलादेन प्रोक्तं वेदं विदन्त्यधीयते वा । अनेन अण्प्र० । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[जाजलाः] जाजलमस्यास्ति । 'अतोऽनेकस्वरात्' (७।२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । जाजलेन जाजलिना वा प्रोक्तं वेदं विदन्त्यधीयते वा = जाजलाः । अनेन अण्प्र० → अ । 'कलापि-कुथुमि-तैतलिजाजलि०' (७।४।६२) इत्यनेन अन्त्यस्वरादिलोपः । प्रथमा जस् ।
[माथुरी वृत्तिः] मथुरायां भवः = माथुरः । 'भवे' (६।३।१२३) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । माथुरेण प्रोक्ता = माथुरी । अनेन अण्प्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी ।
[सौलभानि ब्राह्मणानि] सुलभस्यापत्यं = सौलभः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सौलभेन प्रोक्तानि । अनेन अण्प्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्र० जस् । 'नपुंसकस्य शिः' (१।४।५५) जस्० → शि० → इ० । 'स्वराच्छौ' (१४/६५) नोऽन्तः । 'नि दीर्घः' (१।४।८५) दीर्घः ॥छ।।
___ कठादिभ्यो वेदे लुप् ॥ ६।३।१८३ ।। [कठादिभ्यः] कठ आदिर्येषां ते = कठादयः, तेभ्यः । [वेदे] वेद सप्तमी ङि । [लुप्] लुप् प्रथमा सि । [कठाः] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठाः । [चरकाः] चरकेण प्रोक्तं वेदं विदन्त्यधीयते वा = चरकाः । [कर्कराः] ककरण प्रोक्तं वेदं विदन्त्यधीयते वा = कर्कराः । [धेनुकण्ठाः ] धेनुकण्ठेन प्रोक्तं वेदं विदन्त्यधीयते वा = धेनुकण्ठाः ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [283]