SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २८० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [साऽऽदेः] सह आदिना वर्त्तत इति साऽऽदिः, तस्मात् । 'सहस्य सोऽन्यार्थे' (३।२।१४३) सह० → सभावः । [च] च प्रथमा सि । [वोढुड़े ] वोढा च अङ्गं च = वोढ्ङ्गम्, तस्मिन् । [ रथ्योऽश्वः] रथस्यायं वोढा = रथ्यः । 'यः' (६।३।१७६) इति यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । अश्व प्रथमा सि ।। [रथ्यं चक्रम् ] रथस्येदं = रथ्यम् । 'यः' (६।३।१७६) इत्यनेन यप्र० । [रथ्यं युगम् ] रथस्येदं रथ्यम् । 'यः' (६।३।१७६) इत्यनेन यप्र० । युगम् । धूसरु कथ्यते । [द्विरथः] द्वि-रथ । द्वयो रथयोर्वोढा = द्विरथः । 'यः' (६।३।१७६) यप्र० । 'द्विगोरनपत्ये०' (६।१।२४) यलुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [त्रिरथः] त्रि-रथ । त्रयाणां रथानां वोढा = त्रिरथः । 'यः' (६।३।१७६) यप्र० । 'द्विगोरनपत्ये०' (६।१।२४) यलुप् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [द्विरथ्यः] द्वयो रथयोर्वोढा = द्विरथ्यः । [त्रिरथ्यः] त्रयाणां रथानां वोढा = त्रिरथ्यः । [परमरथ्यम् ] परमश्चासौ रथश्च = परमरथः । परमरथस्येदं = परमरथ्यम् । 'यः' (६।३।१७६) इत्यनेन यप्र० । मतान्तरे अकारस्य लुग् 'द्विगोरनपत्ये०' (६।१।२४) इत्यादिना । [उत्तमरथ्यम् ] उत्तमश्चासौ रथश्च = उत्तमरथः । उत्तमरथस्येदम् = उत्तमरथ्यम् । 'य:' (६।३।१७६) इत्यनेन यप्र० । मतान्तरे अकारस्य लुग् 'द्विगोरनपत्ये०' (६।१।२४) इत्यादिना । [आश्वरथं चक्रम् ] अश्वैर्युक्तो रथः = अश्वरथः । अश्वरथस्येदम् = आश्वरथम् । 'पत्रपूर्वादञ्' (६।३।१७७) अप्र० → अ । 'वृद्धिः स्वरेष्वादेमिति०' (७।४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि । चक्रम् ॥छ।। यः ॥ ६।३।१७६ ॥ [यः] य प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते विसर्ग०' (१।३।५३) विसर्गः । [रथ्यः ] रथस्यायं वोढा = रथ्यः । अनेन यप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । [द्विरथः] द्वयो रथयोर्वोढा = द्विरथः । अनेन यप्र० । 'द्विगोरनपत्ये०' (६।१।२४) यलुप् । [त्रिरथः] त्रयाणां रथानां वोढा = त्रिरथः । अनेन यप्र० । 'द्विगोरनपत्ये०' (६१।२४) यलुप् । [रथ्यम् ] रथस्येदं = रथ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [ परमरथ्यम् ] परमश्चासौ रथश्च = परमरथः । परमरथस्येदं = परमरथ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । [काष्ठरथ्यं चक्रम् ] काष्ठस्य रथः = काष्ठरथः । काष्ठरथस्येदं = काष्ठरथ्यम् । अनेन यप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् । चक्रम् ॥छ।। __पत्रपूर्वादञ् ।। ६।३।१७७ ॥ [पत्रपूर्वात् ] पत्रवाचीशब्द: पूर्वो यस्यासौ पत्रपूर्वस्तस्मात् । Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st .30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [280]
SR No.009970
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 06
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2013
Total Pages444
LanguageHindi
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy