________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२७९
[औपगवकः सङ्गादिः] गोः समीपम् = उपगुः । 'गोश्चान्ते.' (२।४।९६) हस्वः । उपगोरपत्यमौपगवः । 'डसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । औपगवस्यायं सङ्घादिः = औपगवकः । 'गोत्राददण्ड०' (६।३।१६९) अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[सौतङ्गमीयः सङ्घादिः ] सुतङ्गमेन निवृत्ता । 'सुतङ्गमादेरिब्' (६।२।८५) इप्र० → इ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'इत्र इतः' (२।४।७१) ङी । सौतङ्गम्या अयं सङ्घादिः । 'तस्येदम्' (६।३।१६०) यथाविहितः प्राप्तौ 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) ईलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
अथ अङ्कलक्षणयोः को विशेष: ? लक्षणं लक्ष्यस्यैव स्वम्-यथा शिखादि । यथा शिखया परिव्राजकमद्राक्षीत् । शिखालक्षणं स्वं परिव्राजकस्यैव । अङ्कस्तु स्वामिविशेषज्ञापकः । स्वस्तिकादिर्गवादिस्थो न गवादीनामेव स्वं भवति ॥छ।।
शाकलादकञ् च ।। ६।३।१७३ ।। [शाकलात् ] शाकल पञ्चमी ङसि । [अकञ्] अकञ् प्रथमा सि । [च] च प्रथमा सि ।
ननु "शाकलाद् वा" इति क्रियतां चरणत्वात्, पक्षे अकञ् भविष्यति, नैवम्-अत्र चत्वारोऽर्थाः सङ्घादयः सन्ति । एषां मध्यात्तत्रैक एवास्ति, ततोऽन्येषु न सिध्यति, इत्यनेनाकञ् विधानम् । __ [शाकलः, शाकलकः संघादिः ] शकलस्यापत्यं = शाकल्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । शाकल्येन प्रोक्तं वेदं विदन्त्यधीयते वा = शाकलाः । 'तेन प्रोक्ते (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयाणो लुप् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । शाकलानां सङ्घो घोषोऽङ्को वा = शाकलः । अनेन अण्प्र० → अ - अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[शाकलं, शाकलकं लक्षणम् ] शाकलानामिदं लक्षणं = शाकलम् । अनेन अण्प्र० → अ । द्वितीये 'गोत्राददण्ड०' (६।३।१६९) अकप्र० → अक (अनेन अकप्र० → अक) । उभयत्र वृद्धिः । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ॥छ।।
गृहेऽग्नीधो रण धश्च ॥ ६।३।१७४ ॥ [गृहे ] गृह सप्तमी ङि ।
[अग्नीधः] अग्नीध् पञ्चमी ङसि ।
[रण्] रण प्रथमा सि । [धश्च] ध प्रथमा सि । च प्रथमा सि ।
[आग्नीध्रम् ] अग्नीध् ऋत्विग्विशेषः । अग्नि 'जिइन्धैपि दीप्तौ' (१४९८) इन्ध् । अग्निमिन्द्धे = अग्नीध् । क्विप्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । अग्नीध इदं गृहमाग्नीध्रम् । अनेन रण्प्र० → र-धस्य मध्ये धकारः ॥छ।।
रथात् साऽऽदेश्च वोढुङ्गे ॥ ६।३।१७५ ॥ [ रथात् ] रथ पञ्चमी ङसि ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [279]