________________
२७८
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
कौपिञ्जल-हास्तिपदादण् ॥ ६।३।१७१ ॥ [कौपिञ्जलहास्तिपदात् ] कौपिञ्जलश्च हास्तिपदश्च = कौपिञ्जलहास्तिपदम्, तस्मात् । [अण्] अण् प्रथमा सि । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१६९) अकञ्-'दोरीयः' (६।३।३२) ईय इत्यनयोरपवादः ।
[कौपिञ्जलं शकटम्, कौपिञ्जला दण्डमाणवशिष्याः] कुपिञ्जलस्यापत्यं = कौपिञ्जलः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । कौपिञ्जलस्येदं = कौपिञ्जलम् । कौपिञ्जलस्येमे = कौपिञ्जलाः । अनेन अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । सि-अम्-जस् ।
[हास्तिपदं शकटम्, हास्तिपदा दण्डमाणवशिष्याः] हस्तिपादस्यापत्यं = हास्तिपदः । अत एव निपातनात् 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ - पादस्य च पद्भावः । 'वृद्धि: स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । हास्तिपदस्येदं = हास्तिपदम् । हास्तिपदस्येमे = हास्तिपदाः । अनेन अण्प्र० → अ । वृद्धिः । सि-अम्-जस् ।
[कौपिञ्जली स्थूण:(लः)] कौपिञ्जलस्येयं = कौपिञ्जली । अनेन अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । स्थूलः ।
[हास्तिपदी स्थूण:(लः)] हास्तिपदस्य [इमे] इयम् । अनेन अण्प्र० → अ । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'अणजेयेकण्०' (२।४।२०) ङी । 'अस्य यां लुक्' (२।४।८६) अलुक् । स्थूलः ॥छ।।
सङ्घ-घोषा-ऽङ्क-लक्षणेऽञ्-यञिञः ॥ ६।३।१७२ ॥ [ सङ्घघोषाऽङ्कलक्षणे ] सङ्घश्च घोषश्च अङ्कश्च लक्षणं च = सङ्घघोषाऽङ्कलक्षणम्, तस्मिन् । [अञ्यजिञः] अञ् च यञ् च इञ् च = अञ्यञिञ्, तस्मात् । 'गोत्राददण्डमाणव-शिष्ये' (६।३।१३९) इत्यादिना विहितोऽकञोऽपवादः ।
[वैदः सङ्घो घोषोऽङ्को वा, वैदं लक्षणम् ] विदस्यापत्यानि वृद्धानि । 'विदादेर्वृद्धे' (६।१।४१) अप्र० । 'न प्राजितीये स्वरे' (६।।१३५) इति निषेधात् 'यज्ञोऽश्यापर्णान्त०' (६।११२६) इत्यादिना न अब्लोपः । विदानामयं सङ्घो घोषोऽङ्को वा = वैदः । अनेन अण्प्र० → अ । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् । 'यावत् संभवस्तावद्विधि:' (न्या० सं० वक्ष० (२)/सूत्र (५६)) इति न्यायात् अलुप् । एवम्विदानामिदं = वैदम् । अनेन अण्प्र० → अ । 'वृद्धि: स्वरे०' (७४।१) वृद्धिः ऐ । सि-अम् । [गार्गः सङ्को घोषोऽङ्को वा, गार्गं लक्षणम् ] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यब्' (६।१।४२) यप्र० →
मयं सङ्कादिः = गार्गः । अनेन अणप्र० - अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । एवम्गर्गाणामिदं = गार्गम् ।
[दाक्षः सको घोषोऽडो वा, दाक्षं लक्षणम] दक्षस्यापत्यानि = दाक्षयः । 'अत इज' (६।१।३१) इजप्र० २इ। 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । दाक्षीणामयं सङ्घादिः = दाक्षः । अनेन अण्प्र० → अ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । एवम्-दाक्षेरिदं = दाक्षम् । अनेन अण्प्र० → अ । 'अवर्णेवर्णस्य' (७४/६८) इलुक् । सि-अम् ।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[278]