________________
षष्ठाध्यायस्य तृतीयः पादः ॥
=
'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७|४|६८) (६।३।२७) अञ्प्र० अ 'अवर्णैवर्णस्य' (७४६८) अलुक्
[ काण्वा दण्डमाणवाः शिष्या वा ] कण्वस्यापत्यं वृद्धं काण्व्यः | 'गर्गादियंञ्' (६।११४२) यञ्प्र०य । अलुक् । काण्व्यस्य इमे = काण्वाः । 'शकलादेर्यञः' तद्धितय०' (२।४।९२) यलुक्। प्रथमा जस् ।
[ गौकक्षाः ] गोकक्षस्यापत्यं वृद्धं = गौकक्ष्यः । 'गर्गादेर्यञ्' (६।१।४२) यञ्प्र०य । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (अ४६८) अलुक् । गौकक्ष्यस्य इमे गौकक्षाः 'शकलादेर्यजः' (६।३।२७) अजूप्र० अ। 'अवर्णवर्णस्य' (७।४।६८) अलुक्। 'तद्धितय०' (२२४१९२)
=
I
यलुक्। प्रथमा जस् ।
[ दाक्षाः ] दक्षस्यापत्यं = दाक्षिः 'अत इब्' (६।१।३१) इम्प्र० इ 'वृद्धिः स्वरे०' (७४१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७४६८) अलुक् । दाक्षेरिमे = दाक्षाः । 'वृद्धेञः' (६।३।२८) अञ्प्र० । 'अवर्णेवर्णस्य' (७|४|६८) इलुक् । प्रथमा जस् ।
२७७
[ प्लाक्षा:] प्लक्षस्यापत्यं = प्लाक्षि: । 'अत इञ्' (६।३।३१) इञ्प्र० इ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । प्लाक्षेरिमे = प्लाक्षा 'वृद्धेञः' (६।३।२८) अप्र० । 'अवर्णवर्णस्य' (७|४|६८) इलुक् । प्रथमा जस् ।
=
→
[ माहकाः ] अर्ह (५६४) - 'मह पूजायाम् ' ( ५६५ ) मह् । महतीति माहकः । 'णक-तृचौ' (५।१।४८ ) णकप्र० अक । 'ञ्णिति' (४|३|५० ) उपान्त्यवृद्धिः । माहकस्यापत्यं माहकिः । अत इञ्' (६|१|३१) इञ्प्र० इ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । माहकेरिमे छात्रा : = माहकाः । 'वृद्धेञः' (६।३।२८) अञ्प्र० । 'अवर्णेवर्णस्य' (७१४/६८) इलुक् । प्रथमा जस् ।
दण्डप्रधाना माणवाः = दण्डमाणवाः, आश्रमिणां रक्षापरिचरणार्थाः ।
शिष्या अध्ययनार्था अन्तेवासिनः |छ||
रैवतिकादेरीयः || ६ |३|१७० ||
[ रैवतिकादेः ] रैवतिक आदिर्यस्य सः = रैवतिकादिः तस्मात् ।
[ईय: ] ईय प्रथमा सि ।
[ रैवतिकीयं शकटम्, रैवतिकीयः सङ्घादिः, रैवतिकीया दण्डमाणवशिष्याः ] रेवत । ' रेवत - रोहिणाद् भे' (२२४।२६) ङी । 'अस्य छ्यां लुक् (२२४।८६) अलुक् रेवत्या चन्द्रयुक्तया युक्तः कालोऽपि रेवती । 'चन्द्रयुक्तात् काले०' (६।२।६) अण्प्र० । “लुप् त्वप्रयुक्ते" अण्लुप् । 'यादेर्गौण०' (२।४।९५ ) ङीनिवृत्तिः । पुनरेव ङी । रेवत्यां जाता = रेवती । 'भतुं सन्ध्यादेरप्' (६|३|८९) अण्प्र० । 'चित्रा - रेवती रोहिण्या: स्त्रियाम् (६|३|१०८) अण्लुप् । पुनः ङीनिवृत्तिः । पुनरेव ङी रेवत्या अपत्यं रैवतिकः 'रेवत्यादेरिकण्' (६।१४८६) इकण्प्र० इक वृद्धिः स्वरे०' (७|४|१) वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७|४|६८) ईलुक् । रैवतिकस्येमे (दं) = रैवतिकीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य' (७४६८) अलुक रैवतिकस्येमे छात्राः - रैवतिकीयाः । अनेन ईयप्र० । प्रथमा जस् ।
|
=
[गौरग्रीवीयं शकटम्, गौरग्रीवीयः सङ्घादिः, गौरग्रीवीया दण्डमाणवशिष्याः] गौरी ग्रीवा यस्य सः = गौरग्रीवः । ‘गोश्चान्ते ह्रस्वो ० ' (२|४|९६) ह्रस्वः । गौरग्रीवस्यापत्यं = गौरग्रीवि: । 'अत इञ्' (६।१।३१) इञ्प्र० इ । वृद्धिः औ । ‘अवर्णेवर्णस्य' (७|४|६८ ) अलुक् । गौरग्रीवेरिदं = गौरग्रीवीयम् । अनेन ईयप्र० । 'अवर्णेवर्णस्य’ (७।४।६८) इलुक् । सि-अम् । एवमग्रेऽपि । गौरग्रीवेरिमे छात्राः = गौरग्रीवीयम् (याः) । अनेन ईयप्र० । प्रथमा जस् ||छ||
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013) (3rd-3-10-2013) [277]