________________
२७६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
वाजसनेयिनां धर्म:-आम्नायः-सङ्घो वा = वाजसनेयकः । अनेन अकप्र० → अक । 'नोऽपदस्य०' (७/४/६१) इन्लुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
गोत्राददण्डमाणव-शिष्ये ॥ ६।३।१६९ ॥ [गोत्रात् ] गोत्र पञ्चमी ङसि । स्वापत्यसन्तानस्येति लक्षणं गोत्रमिह ग्राह्यम् ।
[अदण्डमाणवशिष्ये] दण्डश्च माणवश्च शिष्यश्च = दण्डमाणवशिष्यम् । न दण्डमाणवशिष्यम् = अदण्डमाणवशिष्यम्, तस्मिन् ।
[औपगवकम् ] गोः समीपम् = उपगुः । 'गोश्चान्ते०' (२।४।९६) हुस्वः । उपगोरपत्यमौपगवः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् । औपगवस्येदम् = औपगवकम् । ईयप्राप्तिरनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्।
[कापटवकम् ] कपटोरपत्यं = कापटवः । ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । कापटवस्येदं = कापटवकम् । ईयप्राप्तिरनेन अकप्र० → अक । 'अवर्णेवर्णस्य' (७४/६८) अलुक्।
[दाक्षकम् ] दक्षस्यापत्यं = दाक्षिः । 'अत इञ्' (६।१।३१) इप्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। दाक्षेरिदं = दाक्षि(क्ष)कम् । अनेन अकञ्प्र० । 'अवर्णेवर्णस्य' (७४/६८) इलुक्।
[प्लाक्षकम् ] प्लक्षस्यापत्यं = प्लाक्षिः । 'अत इब्' (६।१।३१) इञ्प्र० → इ । 'वृद्धिः स्वरे०' (७४।१) वृद्धि: आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक्। प्लाक्षेरिदं = प्लाक्षकम् । अनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) इलुक्।
[गार्गकम् ] गर्गस्यापत्यं वृद्धं = गार्ग्यः । 'गर्गादेर्यञ्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। गार्ग्यस्येदं = गार्ग्य(ग)कम् । 'दोरीयः' (६।३।३२) ईयप्राप्तिरनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७४।६८) अलुक्। 'तद्धितयस्वरेऽनाति' (२।४।९२) यलुक् ।
[गाायणकम् ] गर्गस्यापत्यं वृद्धं = गार्यः । 'गर्गादेर्यब्' (६।१।४२) यप्र० → य । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक्। गार्ग्यस्यापत्यं युवा = गाायणः । 'यञिञः' (६।१।५४) आयनण्प्र० → आयन । 'अवर्णेवर्णस्य' (७४/६८) अलुक्। 'र-घृवर्णान्नो ण०' (२।३।६२) न० → ण० । गाायणस्येदं = गाायणकम् । 'दोरीयः' (६।३।३२) ईयप्राप्तिरनेन अकञ्प्र० → अक । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्।
[ग्लौचुकायनकम् ] ग्लुचुकस्यापत्यं = ग्लुचुकायनिः । 'अदोरायनिः प्रायः' (६।१।११३) आयनिप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। ग्लुचुकायनेरिदं = ग्लौचुकायनकम् । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
[म्लौचुकायनकम् ] म्लुचुकस्यापत्यं = म्लुचुकायनिः । 'अदोरायनिः प्रायः' (६।१।११३) आयनिप्र० । 'अवर्णेवर्णस्य' (७४।६८) अलुक्। म्लुचुकायनेरिदं = म्लौचुकायनकम् । अनेन अकप्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । सि-अम् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st • 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[276]