________________
षष्ठाध्यायस्य तृतीयः पादः ॥
चरणादकञ् ।। ६।३।१६८ ।। [चरणात्] चरण पञ्चमी ङसि । [अकञ्] अकञ् प्रथमा सि । चरणशब्दो वेदशाखावचनस्तद्योगात्तदध्यापि(यि)षु वर्त्तते ।
[काठकः] कठेन प्रोक्तं वेदं विदन्त्यधीयते वा = कठाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) इत्यनेन द्वितीयाणो लोपः । 'कठादिभ्यो वेदे लुप्' (६।३।१८३) इत्यनेन प्रथमस्याणो लुप्। कठानां धर्मः आम्नायः-सङ्घो वा = काठकः अनेन अकप्र० → अक । 'वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[चारककः] चरकेन(ण) प्रोक्तं वेदं विदन्त्यधीयते वा = चरकाः । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयाणो लुप् । 'कठादिभ्यो वेदे लुप्' (६।३।१८३) प्रथमस्याणो लुप् । चरकाणां धर्म:-आम्नायः-सङ्घो वा = चारककः । अनेन अकप्र० → अक | वृद्धिः आ । 'अवर्णेवर्णस्य' (७/४/६८) अलुक् ।
[कालापकः] कलापिन् । कलापिना प्रोक्तं वेदं विदन्त्यधीयते वा । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयाणो लुप् । प्रथमस्य तु कठादावभावान्न लुप् । इन्लुप् । वृद्धिः आ । कालापानां धर्म:-आम्नायः-सङ्घो वा = कालापकः । अनेन अकञ्प्र० → अक । वृद्धिः । 'अवर्णेवर्णस्य' (७/४/६८) अलुक्।
[पैष्पलादकः] पिष्पलादस्यापत्यं = पैष्पलादः । 'ऋषि-वृष्ण्यन्धक०' (६।१।६१) अण्प्र० → अ । वृद्धिः ऐ । 'अवर्णेवर्णस्य' (७४।६८) अलुक्। पैष्पलादेन प्रोक्तं वेदं विदन्त्यधीयते वा = पैष्पलादाः । 'दोरीयः' (६।३।३२) बाधनाय 'मौदादिभ्यः' (६।३।१८२) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयाणो लुप् । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। पैष्पलादानां धर्म:-आम्नायः-सङ्घो वा = पैष्पलादकः । अनेन अकञ्प्र० → अक ।
[मौदकः] मुदस्यापत्यं = मौदः । 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१४६१) अण्प्र० । 'वृद्धिः' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । मौदेन प्रोक्तं वेदं विदन्त्यधीयते वा = मौदाः । 'दोरीयः' (६।३।३२) बाधनाय 'मौदादिभ्यः' (६।३।१८२) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) द्वितीयाणो लुप् । 'अवर्णेवर्णस्य' (७।४।६८) अलुक्। मौदानां धर्म:-आम्नायः-सङ्घो वा = मौदकः । अनेन अकप्र० → अक ।
[आर्चाभकः] ऋचाभेन प्रोक्तं वेदं विदन्त्यधीयते वा = आर्चाभिनः । 'शौनकादिभ्यो णिन्' (६।३।१८६) णिन्प्र० → इन् । 'तद् वेत्त्यधीते' (६।२।११७) अण् । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । आर्चाभिनां धर्म:-आम्नायः-सको वा = आर्चाभकः । अनेन अकप्र० → अक । 'नोऽपदस्य तद्धिते' (७।४।६१) इन्लु क् ।
[वाजसनेयकः] वाजसना । वाजसनाया अपत्यं = वाजसनेयः । 'झ्याप्त्यूङः' (६।१७०) एयणप्र० → एय । वृद्धिः । 'अवर्णेवर्णस्य' (७।४।६८) आलुक् । वाजसनेयेन प्रोक्तं वेदं विदन्त्यधीयते वा = वाजसनेयिनः । 'शौनकादिभ्यो णिन्' (६।३।१८६) णिन्प्र० → इन् । 'तद् वेत्त्यधीते' (६।२।११७) अण्प्र० । 'प्रोक्तात्' (६।२।१२९) अण्लुप् ।
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [275]