________________
२७४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[औक्थिक्यम् ] उक्थं वेत्त्यधीते वा = औक्थिकः । 'याज्ञिकौक्थिक-लौकायितिकम्' (६।२।१२२) औक्थिकनिपात्यते । औक्थिकानां धर्म:-आम्नायः - सङ्को वा = औक्थिक्यम् । अनेन ज्यप्र० → य । 'वृद्धिः औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[याज्ञिक्यम् ] यज्ञं याज्ञिक्यं वा वेत्त्यधीते वा = याज्ञिकः । 'याज्ञिकौक्थिक-लौकायितिकम्' (६।२।१२२) याज्ञिकनिपात्यते । याज्ञिकानां धर्म:-आम्नायः-सङ्घो वा = याज्ञिक्यम् । अनेन ज्यप्र० → य । 'वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[बाव॒च्यम् ] बहु-ऋच् । बढ्य ऋचो यस्य सः = बहृचः । 'नञ्-बहोर्ऋचो माणव-चरणे (७।३।१३५) अप्समासान्तः । बढचेन प्रोक्तं वेदं विदन्त्यधीयते वा । 'तेन प्रोक्ते' (६।३।१८१) अण्प्र० । 'तद् वेत्त्यधीते' (६।२।११७) इति वा अण् । 'प्रोक्तात्' (६।२।१२९) अण्लुप् । 'कठादिभ्यो वेदे लुप्' (६।३।१८३) अण्लुप् । बढ्चां (चानां) धर्म:-आम्नायः-सङ्घो वा = बाव॒च्यम् । अनेन ज्यप्र० → य । वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । सि-अम् ।
[नाट्यम् ] नटानां धर्म:-आम्नायः-सको वा = नाट्यम् । अनेन ज्यप्र० → य । 'वृद्धिः स्वरे०' (७४.१) 'वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[छान्दोगम् ] छन्दोगानामिदं गृहं = छान्दोगम् । 'तस्येदम्' (६।३।१६०) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७४।१) 'वृद्धिः आ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ॥छ।।
आथर्वणिकादणिकलक् च ॥ ६।३।१६७ ॥
[आथर्वणिकात् ] आथर्वणिक पञ्चमी ङसि । [अण्] अण् प्रथमा सि । [इकलुक्] इकस्य लुक् = इकलुक् । प्रथमा सि । [च] च प्रथमा सि ।
आथर्वणिकादण् लुक् चेति क्रियतां किमिकोपादानेन ? यतोऽणो विधानसामर्थ्यात् लुक् न भविष्यति, ततश्च 'प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्' (न्या०सं०वक्ष०(२)/सूत्र(२)) इति न्यायात् इकस्यैव लोपो भविष्यति । न च वाच्यमुभयोरपि प्राप्नोति, यदि स्यात्तदा विधानस्य न किमपि फलम् ? नैवम्, विधानस्य एतदेव फलमकञभावस्तत उभयोरपि लोपेऽनिष्टं स्यात् रूपं, अत इकग्रहणं विधातव्यम् ।
[आथर्वणः] अथर्वन् । अथर्वणा प्रोक्तं वेदं वेत्त्यधीते वा = आथर्वणिकः । 'तेन प्रोक्ते (६।३।१८१) अण्प्र० । 'न्यायादेरिकण्' (६।२।११८) इकण्प्र० → इक । वृद्धिः आ । अत एव निपातनात् गणपाठसामर्थ्याद्वा 'प्रोक्तात्' (६।२।१२९) इत्यनेन इकणो लुप न भवति ।
अथवा अथर्वाणं आथर्वणं वा वेत्त्यधीते वा = आथर्वणिकः । 'न्यायादेरिकण्' (६।२।११८) तस्य लुप् न प्राप्नोति, अप्रोक्तत्वात् इति वा । आथर्वणिकानां धर्म:-आम्नायः-सङ्घो वा = आथर्वणः । अनेन अण्प्र० → इकण्लोपश्च । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
चरणादकञ्(जि) प्राप्ते वचनम् ॥छ।।
Shrenik/D/A-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012) Doondhika Part-6 (C) 1st 30-7-2013 (2nd - 16-9-2013)
(3rd-3-10-2013)[274]